पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३८ श्रीमच्छकरदिग्विजयः । भवञ्शरीरादितरत्र चेश कथं न शारीरपदाभिधेयः ॥ नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥ २४ ॥ यद्येष मन्त्रोऽनभिधाय जीव प्राज्ञौ वदेदुद्धिशरीरभाजौ । अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्ताहं कथं प्रमाणम् ॥ २५ ॥ अदाहकस्याप्ययसः कृशाना राश्लेषणाद्दाहकता यथाऽऽस्ते ॥ तथैव भोक्तत्वमचेतनाया बुद्धेरपि स्याचिदनुप्रवेशात् ॥ २६ ॥ छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति बुवाणा ॥ ऋत्तं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥ २७ ॥ [ सर्गः ८ ] परिहरति भगवान् । सर्वगत्वादीशः शरीरादितरत्रापि भवञ्शारीरपदाभिधेयः कथं तत्र दृष्टान्तो यथाऽऽकाशं व्यापकत्वाच्छरीरेऽपि भवति तथाऽपि शारीरपदाभिधेयं केऽपि न कथयन्ति तद्वदित्यर्थः । उपेन्द्रवज्रा वृत्तम् ॥ २४ ॥ एवं तर्हि मश्रस्य प्रामाण्यं बाध्येतेति शङ्कितं मण्डनः स्मारयति । यद्येष मम्रो जीवेशावनभिधाय बुद्धिजीवौ वदेदुद्धेश्चाचेतनायं भत्तीति भोकृत्वं वदेत्तर्हि प्रमाणं कथं प्रमाणं न भवेदित्यर्थः । इन्द्रवत्रा वृत्तम् ॥ २५ ॥ [ मण्डनः सप्तदशपणे शाङ्क तमेव स्मारयति । यद्येष इति ] ॥ २५ ॥ परिहरति भगवान् । अदाइकस्यापि लोहापिण्डस्य वस्तादात्म्याद्यथा दाहकत्वं मास्ते तथैव चैतन्यानुप्रवेशादचेतनाया बुद्धेरपि भोकृत्वं स्यात् । तथाचायो दहती तिवाक्यवदत्तीति वाक्यमपि सुखदुःखादिविक्रियावति सत्वे भोकृत्वमारोप्य प्रवृत्तं प्रमाणमेव न हीयं श्रुतिरचेतनस्य सत्त्वस्य भोकृत्वं वक्तुं प्रवृत्ता किंतु चेतनस्य क्षेत्र ज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वतुं प्रवृतेति भावः। उपजातिवृत्तम् ॥ २६ ॥ एवमुक्ता मण्डनः १ ख. 'त्वमस्ति त'।