पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ श्रीमच्छकरदिग्विजयः । सप्रत्यवादीदिदमेव मानं यच्छेतकेतुप्रमुखान्विनेयान् । उद्दालकाद्या गुरवो महान्त संग्राहयन्त्यात्मतया परेशम् ॥ ७७ ॥ [ सर्गः ८ ] न स्वतः प्रमाणं तथा भूतार्थानुवादकत्वेन श्रुतिमस्तकस्यानपेक्षालक्षणं प्रामाण्यं व्याह न्येत । तथाच प्रत्यक्षादिविषयस्य परिनिष्ठितवस्तुनः प्रतिपादनासंभवत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावाच्छूतिमस्तकस्य तत्र प्रमाणत्वाभावेन भवत्सिद्धान्ते वयं प्रमाणं न प्रतीम इति । उपजातिवृत्तम् ॥ ७६ ॥ एवं मण्डनकर्तृकमाक्षेपमुदाहृत्य भाष्यकृत्कर्तृकमुत्तरमुदाहर्तुमाह । स भगवान्भाष्य कारः पत्यवादीत्पत्युत्तरं दत्तवान् । इदमेव प्रमाणं यच्छेतकेतुपभृतीञ्शिष्यानुद्दालकाद्या महान्तो गुरवः परेशं परमात्मानमात्मतया ग्राहयन्ति । ‘तत्त्वमसि चेतकेतो' इति । अाद्यप्रमुखपदाभ्यां जनकयाज्ञवल्क्यादयो गृह्यन्ते । तथाचाऽऽह जनकं प्रति याज्ञ वल्क्यः । 'अभयं वै जनक प्राप्तोऽसि तदाऽऽत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सवे मभवत्' । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यत:’ इत्यादि । अयमभिसंधिः । पुवा क्यदृष्टान्तेन भूतार्थतया सापेक्षत्वेनाप्रामाण्यापीत्तमभिप्रेत्य प्रत्यगभिन्ने ब्रह्मणि प्रमाणं न वयं मतीम इति वदता त्वया वक्तव्यं किं पुंवाक्यानां सापेक्षत्वं भूतार्थत्वेनोत पौरुषे यत्वेन । आद्ये प्रत्यक्षादीनामपि भूतार्थतया सापेक्षत्वेनाप्रामाण्यप्रसङ्गः । द्वितीये त्वपौ रुषेयाणां वेदान्तानां प्रत्यक्षादीनामिव भूतार्थानामपि नामामाण्यम् । तथाच ब्रह्मात्म भावस्य परिनिष्ठितवस्तुस्वरूपत्वेऽपि तत्त्वमसत्यादिशास्त्रमन्तरेणानवगम्यमानतया प्रत्य क्षादिविषयत्वाभावेनानधिगतगन्तृत्ववतां वेदान्तानां प्रत्यगभिन्ने बह्मणि प्रामाण्यमवश्य मास्थेयम् । नापि हेयोपादेयरहितत्वादपुरुषार्थत्वम् । हेयोपादेय शून्यब्रह्मात्मावगमा देव सर्वेक्रेशनिवृतिपूर्वकपरमानन्दप्राप्त्या पुरुषार्थसिद्धेः । द्विविधं हुपादेयं किंचिदप्राप्त यथा ग्रामादि किंचित्पुनः प्राप्तमपि विभ्रमवशादमाप्तामवावगतं यथा स्वग्रीवावनद्धं प्रैवेयकम् । एवं हेयमपि द्विविधं किंचिदहीनं यथा व्यावहारिकसपदि किंचित्पुनहींनं यथा चरणाभरणे नूपुरादौ समारोपितसपदिरेवं च ब्रह्मात्मभावस्याऽऽद्यहेयोपादे यत्वाभावेप्यविद्यासमारोपितशोकादेस्तत्वमस्यादिवाक्यजानततत्त्वज्ञानादवगातपर्यन्ता न्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्ताभव प्राप्त भवति त्यक्तमेव शाकद्यत्यक्तभिव त्यक्तं भवतीति तस्य परमपुरुषार्थत्वसिद्धिरिति ॥ ७७ ॥ १ क. घ. 'पेक्ष्यल'। २ क. 'वात्तत्प्र'। ३ ख. घ. "तृकाक्षे'। ४ ख. 'कादिकमत्यक्त'।