पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] जाने भवन्तमहमार्यजनार्थजात मद्वैतरक्षणकृते विहितावतारम् ॥ प्रागेव चेन्नयनवत्र्मकृतार्थयेथाः पापक्षयायं न तदेदृशमाचरिष्यम् ॥ ४ ॥ प्रायोऽधुना तदुभयप्रभवाघशान्त्यै प्राविक्षमार्य तुषपावकमात्तदीक्षः ॥ भाग्यं न मेऽजनि हि शाबरभाष्यवत्व द्राष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ॥ १०५ ॥ इत्यूचिवांसमथ भट्टकुमारिलं त मीषद्विकस्वरमुखाम्बुजमाह मौनी ॥ श्रुत्यर्थकर्मविमुखान्मुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहं तु जाने ॥ ६ ॥ भाष्यं भवता प्रणीतमिति श्रुत्वा हे योगिन्भवत्पणीते भाष्ये वृत्तिं विधाय यशोऽधि गच्छेयमिति वाञ्छा पुरा स्थिता परंतु संप्रति तदुक्त्या किं निष्फलत्वात् । स्मेति पादपूरणे ॥ ३ ॥ आर्याणामर्थे जातमार्याणामर्थसमुदायो यस्मात्तथाभूतमिति वा । हे आर्य जनार्थ जातमिति वा । पुनश्चाद्वैतरक्षणाय विहितोऽवतारो येन तथाभूतं भवन्तमहं जाना म्यतो यदि तुषानलपवेशात्प्रागेव पापक्षयाय मम नेत्रमार्गे कृतार्थयेथास्तर्हि हे यते ईदृशं प्रायश्चित्तं नाऽऽचरिष्यम् । वसन्ततिलका वृत्तम् ॥ ४ ॥ अधुना तु प्रायो गुरुद्रोहेश्धरनिरासमभवाघशान्त्यर्थमात्तदीक्षस्तुषानलं हे आर्य प्राविक्षम् । मम भाग्यानुदय एव भवद्भाष्यवार्तिकाकरणे निदानमित्याह । भाग्य मिति ॥ १०५ || [ किंचन यथाशक्ति यत्किचिदित्यर्थः । विलिख्य । यशोऽधि गन्तुम् । भाग्यं ‘दैवं दिष्टं भागधेयं भाग्यम्' इत्यमरादैवमित्यर्थः ] ॥ १०५ ॥ एवं भट्टपादोक्तमुदाहृत्य श्रीशंकरवाक्यमुदाहर्तुमाह । इत्येवमुक्तवन्तं भट्टकुमारिल मीषद्विकस्वरमुखकमलमथ तदुक्त्यनन्तरं मौनी श्रीशंकर उवाच । यद्यप्यन्ये न जानन्ति तथाऽपि श्रुत्यर्थात्कर्मणो विमुखान्सुगतानिहन्तुं भुवि जातं स्कन्दं भवन्तमहं तु जाने ॥ ६ ॥ [ श्रुत्यर्थेति । श्रुत्यर्थीभूतं यत्कर्म तत्र विमुखास्तानुपलक्षणमिदं ब्रह्म णोऽपि । कर्मब्रह्मोभयभ्रष्टानित्यर्थः । एतेन हनने हेतुद्योतितः ] ॥ ६ ॥ १ क. ध. "य बत नेट'। २ क. 'रणनि।