पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ॥ भवादृशैः संगतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥ ८५ ॥ चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ॥ स्वेच्छाविधेयोऽभिमतेन योगः ॥ ८६ ।। युनक्ति कालः कचिदिष्टवस्तुना कचित्त्वरिष्टन च नीचवस्तुना । तथैव संयोज्य वियोजयत्यसौ मुखासुखे कालकृते प्रवेद्म्य तः ।। ८७ ।। कृतो निबन्धो निरणापि पन्था निरासि नैयायिकयुक्तिजालम् ॥ तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥ ८ ॥ यतो भवादृशां संगतिरेव संसारादुद्धरणोपाय इत्याह । असारेति । तदुत्ताराविधौ संसारोत्तरणविधौ । उपजातिवृत्तम् ॥ ८५ ॥ नन्वेवं तर्हि पूर्व दर्शनेच्छा तव कुतो नोत्पन्नेति चैवेत्तत्राऽऽह । चिरकालमारभ्येत्थं दर्शनमिच्छामि परंत्वद्य दृष्टिमार्गे त्वं गतोऽसि । नन्वेवं तर्हि किमिति स्वाभि लषितं त्वया न संपादितमिति चेत्तत्राऽऽह । नहीति ॥ ८६ ॥ तर्हि को वा युनक्तीति चेत्तत्राऽऽह । युनक्तीति । अतः कारणात्सुखदुःखे कालकृतेऽहं विजानामि । इन्द्रवंशा वृत्तम् ॥ ८७ ॥ [ प्रवेद्भम्यबाधितत्वाख्यमक षेण जानामीत्यर्थः ] ।। ८७ ।। अहं तु सर्वे कर्तव्यं कृतवानेवेत्याह । कृत इति । पुनश्च कर्ममागों निर्णीतः पुनश्च नैयायिकयुक्तिजालं निरस्तं विषयोत्थं सुखदुःखजातं चान्वभूवम् । नन्वेवं भूतस्त्वमेनं कालं किमिति न परिहरसीति चेत्तत्राऽऽह । नेशे समर्थो न भवामि ॥८८॥ २८९५ १ घ. म तत्र । २ ग. घ. 'योत्थसु।