पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । सुमन्तुपैलप्रथमा मुनींन्द्रा महानुभावा “नु यस्य शिष्याः ॥ तृणाछधीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥ ३६ ॥ सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।। भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥ ३७ ॥ अकार यत्साहसमात्मबुद्धया भवत्प्रशिष्यव्यपदेशभाजा ॥ विचार्य तत्सूक्तिदुरुक्तिजाल मर्हः समीकर्तुमिदं कृपालुः ॥ ३८ ॥ इत्थं निगद्योपरतस्य हस्ता द्धस्तद्वयेनाऽऽदरतः स भाष्यम् । आदाय सर्वत्र निरैक्षतासौ प्रसादगाम्भीर्यगुणाभिरामम् ॥ ३९ ॥ २७१ तद्वाक्यमुदाहरति त्रिभिः । सुमन्तुपैलवैशंपायनाद्या मुनीन्द्रा महाननुभावः प्रभावो येषां ते। ननु यस्य ते शिष्यास्तस्मिस्त्वयि तृणादप्यतिशयेन लघुभूतोऽहं को यद्य ट्येवं तथाऽपि दीने मयि कारुण्यं दर्शितवानसि । उपेन्द्रवज्रा वृत्तम् ॥ ३६ ॥ सोऽहं लघीयानपि तव कारुण्यपात्रतां गतः सर्वेषामुपनिषद्रतानामर्थानां विवेचक स्यायमत्राभिप्रेतोऽर्थोऽयं नेति विविच्य प्रदर्शकस्य भवदीयसूत्रलक्षणस्य सहस्रकिर णस्य सूर्यस्य भाष्यलक्षणेन पदीपेन नीराजनमारार्तिकं कृत्वा हे महर्षिमान्य धाष्टयेन न लजनं । इन्द्रवज्रा वृत्तम् ॥ ३७ ॥ यद्यप्येवं तथाऽपि भक्त्या कृतं प्रदीपेन नीराजनं यथा सविता स्वीकरोति तथा भवत्सूत्रेण स्वीकृतत्वान्मत्कृतं भाष्यं त्वं शोधयितुमर्हसीत्याशयेनाऽऽह । भवत्प्रशि ष्यव्यपदेशपात्रेण मया यत्साहसं स्वबुद्धया कृतं तद्विचार्य सूक्तिदुरुक्तिजालमिदं समं कर्तु कृपालुस्त्वं योग्योऽसि । उपजातिवृत्तम् ॥ ३८ ॥ इत्थमुक्त्वोपरतस्य तूष्णीं स्थितस्य श्रीशंकरस्य हस्तात्स वेदव्यास आदरेण हस्तद्वयेन भाष्यमादायासौ व्यासः प्रसादगाभ्भीर्यगुणैरभिरामं सर्वत्र सम्यग्विचारपू र्वकं दृष्टवान् ॥ ३९ ॥ १ क. ख. घ. हस्ते हस्त'। २ ख. ग. घ. तव । ३ ख. 'षदुक्ताना'.४.ग. 'तमात्मसात्कू'।.