पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । सप्ताधिकाच्छदरविंशतिमौक्तिकाढयां सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ॥ तत्तादृशस्वपतिवंशविवर्धनात्मा क्तारावलीमुपगतामिव चानुनेतुम् ॥ १७ ॥ शार्दूलचमेद्वहनेन भूते रुदूलनेनापि जटांछटाभिः ॥ रुद्राक्षमालावलयेन शंभो रर्धासनाध्यासनसख्यपात्रम् ॥ १८ ॥ अद्वैतविद्यासृणितीक्ष्णधारा वशीकृताहंकृतिकुञ्जरेन्द्रम् ॥ नियन्त्रिताकृत्रिमगोसहस्रम् ॥ १९ ॥ तत्तादृगत्युज्ज्वलकीर्तिशालि शिष्यालिसंशोभितपाश्र्धभागम् ॥ २६५ १ क. 'टालताभिः निवारिताशेषजनानुतापम् ॥ २० ॥ सप्ताधिकैरच्छदरैः स्वच्छच्छिद्रेर्विशतिसंख्याकैमौक्तिकैराढ्यामक्षमालां सत्यस्य मूर्तिमिव बिभ्रतं तत्तादृशस्य स्वपतिवंशस्य चन्द्रवंशस्य वर्धनात्प्रागुपगतां तारावलीम श्धिन्यादिनक्षत्रमालां भवत्पतिवंशं वर्धयिष्यामीत्यनुनयं कर्तुमिवेत्युत्प्रेक्षाद्वयम् ॥ १७ ॥ [ सप्ताधिकेति । सप्ताधिकैरच्छदरै * दरोऽस्त्री साध्वसे गर्ते ' इति मेदिन्याः सुन्दरसूक्ष्मच्छिद्वैर्विशतिसंख्याकैमोक्तिकैराढ्या संपन्ना तामित्यर्थः ] [ भाननेन्दु मुखचन्द्रम् । उपगतां तारावलीमिव स्थितामित्यर्थः । अनुनेतुमिति पाठे व्यासमित्यार्थिकमेव । भगवता बादरायणेनैव हि सत्यवत्याज्ञया चन्द्रवंशवर्धनमका रीति महाभारते प्रसिद्धमेव ] ॥ १७ ॥ शार्दूलचमोद्वहनादिना शंभोरर्धासनाध्यासनस्य सख्यस्य पात्रम् । इन्द्रवज्रा वृत्तम् ॥ १८ ॥ अद्वैतविद्यालक्षणस्याङ्कशस्य तीक्ष्णया धारया वशीकृतोऽहंकारलक्षणो गजेन्द्र येन तं स्वशास्रमद्वैतशास्त्रं तलक्षणे शङ्घौ स्थाणावुज्ज्वलसूत्रलक्षणदामभिर्नियश्रितमकृ त्रिमानां श्रुतिलक्षणगवां सहस्र येन तम् । उपजातिवृत्तम् ॥ १९ ॥ तत्तादृशामत्युज्ज्वलकीर्तिशालिनां शिष्याणां पङ्गिभिः संशोभितः पार्धभागो यस्य