पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा दा रुद्राकर्षणाद्रागवनतशिस्वराद्रोगसान्द्रान्नगेन्द्रात् ॥ आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे रद्वैताद्यापवग जयति यत्तिंधरापोद्धता ब्रह्मविद्या ॥ ६६३ ॥ इति श्रीमाधवीपे तब्रह्मविद्यामतिष्ठितिः ॥ संक्षेपशंकरजये षष्ठः सर्ग उपारमत् ॥ ६ ॥ [ सर्गः ७] स जातु शारीरकसूत्रभाष्य मध्यापयन्नभ्रसरित्समीपे ॥ शिष्यालिशङ्काः शमयनुवास यावन्नभोमध्यमितो विवस्वान् ॥ १ ॥ रहसि स्तम्बे काण्डम्' इति विश्वपकाशः ॥ १०६ ॥ [ अकाण्डकं प्रकटं यथा स्यात्तथा ] ॥ १०६ ॥ सीतानाथस्य नेता रामेश्धरस्तस्य समुद्रात्स्थलकृतं सेतुबन्धनेन यत्सलिलं तेन द्वैतमुद्रा यत्र तत्पर्यन्तं पुनश्च रुद्रेण त्रिपुरसंहारसमये यदाकर्षणं तस्माद्राग्झटित्यवन तानि नम्रीभूतानि शृङ्गाणि यस्य भोगैः सान्द्राद्धनीभतान्नगेन्द्रात्सुमेरोस्तत्पर्यन्तं तथो दयाचलमुकुटतटपर्यन्तं तथाऽस्ताचलाद्रेस्तटपर्थन्तमद्वैतो द्वैतशून्य भाद्योऽकार्यभू तोऽपवगों यस्याः सा यतिभूमिपेन यतिराजेनोद्धता ब्रह्मविद्या जयति सर्वोत्कर्षण वर्तते । स्रग्धरा वृत्तम् ॥ १०७ ॥ [ स्थलेति । स्थलकृतं सेतुबन्धनेन यत्सलिलं तेन द्वैतमुद्राजलभेदरचना यत्र तत्पर्यन्तमित्यर्थः ] [ भोगेति । भोगैर्देवादिविलासैः सान्द्रो निबिडस्तस्मात् । नगेन्द्रान्मेरोस्तत्पर्यन्तम् ] ॥ ६६३ ॥ [इति श्रीति। तदिति ।भाष्यकारकृतब्रह्मविद्याप्रतिष्ठितिर्यत्र स तथेत्यर्थः॥१०८॥] इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रपिादशिष्यद्दत्तवंशावतंस रामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यविजयडिण्डिमे षष्ठः सर्गः ॥ ६ ॥ अथ सप्तमसर्गस्य टीका । एवं सपरिकरां ब्रह्मविद्यामतिष्ठितिमुपवण्र्य व्यासदर्शनादिकं वर्णयितुमनुक्रमते स इति । स श्रीशंकरः कदाचित्खनदी गङ्गा तत्समीपे शारीरकसूत्रभाष्यं पाठय १ क. 'तिवरणो'। २ घ. 'तस्य मु'। ३ ग . "चिदभ्रन।