पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
प्रथमोऽधिकारः

श्रीसात्त्वते द्वाविंशे परिच्छेदे समयि-पुत्रक-साधक[१]लक्षणोक्त्यनन्तरम् आचार्यलक्षणे 'साङ्कर्यमागमानां च वेत्ति वाक्यवशात्तु यः' इत्युक्त्वा, शास्त्रसङ्करशोधनार्थमनन्तरमुच्यते-

"तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् ।
पौरुषं चारविन्दाक्ष तद्भेदमवधारय ॥
यदर्थाढ्यमसन्दिग्धं [२]स्वच्छमल्पाक्षरं स्थिरम्[३]
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ॥
प्रशंसक वै सिद्धीनां सप्रवर्तकमप्यथ ।
सर्वेषां रञ्जकं [४]गूढनिश्चयीकरणक्षमम् ॥
मुनिवाक्यं च तद्विद्धि चतुर्वर्गफलप्रदम् ।
अनर्थकमसबद्धमल्पार्थं शब्दडम्बरम् ॥
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ।
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ॥
प्रसिद्धार्थानुवादं यत्सङ्गतार्थं विलक्षणम् ।
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत्" ॥ इति ।

अत्र 'अनिर्वाहकमाद्योक्ते' इति दिव्य-मुनिभाषितयोः विरुद्धार्थत्वमुच्यते । असंबद्धमिति पूर्वापरविरुद्धत्वम् । तदिदमुभयमपि निकृष्टसहितात्यागेन

उत्कृष्टसहितापरिग्रहवचने श्रीसात्त्वत-पौष्कर-नारदीय-पाद्मादिविरोधात् सा-

  1. समाधिपुत्रकसाधक-घ, समयपुत्रिकासाधन-ग, समयपुत्रकसाधक-क, ख, च, झ
  2. स्वल्प-क, ख, ग
  3. स्मृतम्-क, च स्थितम्-ख, ग
  4. गूट- क, ख, ग, घ, ड, च, छ, झ