पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
तृतीयोऽधिकारः

एतदपि क्षामणयोग्यताख्यापकम् । अन्यथा क्षमस्वेति प्रार्थनाविधानानुपपत्ते[१] । न चैतावता कृतापराधेन[२] निर्भयेन भवितव्यम् ।

"प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शन वरम्" इति न्यायात् ।

अकर्मण्यतापादका
दोषा ।

 अत्र चाकर्मण्यताहेतूनपराधानेवमाह[३] भगवान्---

"श्रृणु सुन्दरि तत्त्वेन आहारस्य विनिर्णयम् ।
आहारो यस्त्वनाहारस्तच्छृणुष्व वसुन्धरे ॥
भोजन यस्तु भुञ्जीत मम योगाय माधवि ।
अशुभ कर्म कृत्वापि पुरुषो धर्मसश्रितम् ॥
आहार चैव कर्मण्यमुपयुञ्जीत नित्यशः ।
[४]सर्वेषा च तत कर्म प्रवृत्ते प्राणधारणम् ॥
अकर्मण्यानि वक्ष्यामि यैर्न तुष्यामि सप्रति ।
राजान्न च न भोक्तव्य मम भक्तै कदाचन ॥
राजान्नेन तु भुक्तेन त्वपराधो महान् भवेत् ।
द्वात्रिशदपराधास्तु न सेवेत मम प्रिये ॥
भोज्यान्नपानाहारेषु ये मया परिकीर्तिता ।
दन्तकाष्ठमखादित्वा यस्तु मामुपसर्पति ॥
द्वितीयमपराध तु धर्मविन्न प्रवर्तते ।
गत्वा मैथुनसङ्ग तु यस्तु मा स्पृशते नर ॥

  1. प्रार्थनानुपपत्ते---क, ख, ग, झ
  2. कृतापराधेन---क, ख, ग, च, झ कोशेषु नास्ति
  3. अपराधानाह- क, ख, ग, च, झ
  4. सर्वे चात्रैव कर्मण्या व्री​​​हय शालयस्तथा । इति वराहपुराणपाठ