पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
श्रीपाञ्च​रात्ररक्षा

दर्भान् पत्राणि [१] समिधो यथाशक्ति यथावसु ।
आहृत्य याच्ञयार्थैर्वा [२] पूजास्थाने निवेशयेत्
नीत्वोपादानसमयमित्थं तदनु पूजयेत् ॥" इति ।

 अस्या संहिताया संहितान्तरेषु पुष्पप्रकरण-हविष्पाकप्रकरणादिषु [३] च हेयोपादेयसमस्तद्रव्यविभागो द्रष्टव्य । अत्र याच्ञयेत्युक्तोऽय[४]मधमाधमपक्ष ।

"स्वप्रयत्न​कृतं शस्तं मध्यम वन्यमुच्यते ।
अधमं तु क्रयक्रीत याचित [५] त्वधमाधमम् ॥"

इति पुष्पप्रकरणोक्तस्य सर्वेषु द्रव्येष्वविशेषेण सञ्चरणात् ।

 भोजराजस्त्वेव पुष्पेषु राजस-तामसादिविभागं पुष्पाड्कुर-पत्र-मूल-धूप-दीप-वस्त्राभरणेषु वर्ज्यावर्ज्य​विभाग च [६] सजग्राह--- "अथ पुष्पाणि त्रिविधानि

पुष्पेषु वर्ज्यानि
अवर्ज्यानि च ।

-सात्विकानि राजसानि तामसानीति । शुक्लानि सात्त्विकानि । रक्तानि राजसानि । कृष्णानि तामसानीति । शुक्लानि द्विविधानि---शुक्लवर्ण वलर्क्षमिति । शुक्लं शंख-कुन्देन्द्वादिवर्णम् । वलर्क्ष स्फटिकवर्णादि । रक्तं द्विविधम्---रक्तम् अरुणमिति [७] । रक्त जपाकुसुमादिवर्णम् । अरुण किशुकादिवर्णम् । पीत द्विविधम्–पीत हरितमिति । कृष्णं द्विविधम् ---

  1. पर्णानि---घ, ड, च, छ
  2. याच्ञयाप्तैर्वा---क, झ, याच्ञया तेर्वा—ख, ग, याच्ञयार्थानि (?) (प्तानि) घ
  3. हवि प्रकरणादिषु---क, ख, ग, च, झ
  4. अय इति शब्द घ, ड, छ कोशेषु न दृश्यते
  5. पारक्य--- क, ख, ग, च, झ
  6. घ कोश एव 'च' कारो दृश्यते
  7. अरुण चेति --- क, ख, ग, च, झ