पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
श्रीपाञ्चरात्ररक्षा

‘यथा तथा वापि सकृत् कृतोऽञ्जलि’ इत्यादीनामविरोधः[१] । योग्यतायां सत्यां द्वाभ्यां पाणिभ्यां प्रणमतोऽपि ऊनत्वमामनन्ति–"यदा ह्ययं केवलपाणिभ्यामेव नमति न जानुभ्यां न शिरसा, एकेन ज्ञानेन नमति स्पर्शविशेष[२]ज्ञानेन हीयते । इतराणि ज्ञानानि कर्मण । एकेन नमन् ऊनो नमति । ऊनो नमन् अनाप्तकारी भवति । अनाप्तकारी न भगवन्तमामोति" इति । आचार्यनामग्रहणे[३] भगवन्नामग्रहणे[४] च अञ्जलिबन्धादिकं तत्र तत्र ग्राह्यम् । दर्शितश्चायमाचारः सम्भवपर्वणि व्यासप्रस्तावे "महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत्" इति ।

 एवं यथार्ह प्रणम्योत्थितश्च[५] भगवतः पुरस्ताद्दक्षिणतोऽवस्थाय

भगवत्सेवाप्रकार ।

गुरुपरम्परया भगवन्तं शरणमुपगम्य पावन-मनोहरतद्दर्शनानन्दबृंहितसर्वाङ्गः प्रीतिपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् । भगवदर्चावतारदर्शनमाहात्म्यं[६] चैवमुक्तं श्रीपौष्करे ------

"सन्दर्शनादकस्माच्च पुंसां संमूढचेतसाम् ।
कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥" इति ।

अन्यत्र तु महतामपि पातकानां प्रायश्चित्ततया विधीयते । "अहरेकं हरेर्बिम्बमापीठादवलोकयेत्" इति ।

  1. इत्यादीनामप्यविरोध –घ
  2. स्पर्शविषयविशेष- छ
  3. आचार्यदर्शने—क,ख,ग,ड,च,छ,झ
  4. भगवतो नामग्रहणे-घ
  5. चकारः क,च,झ कोशेषु नास्ति
  6. माहात्म्यशब्दो घ कोशादन्यत्र विमुक्तः