पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
श्रीपाञ्चरात्ररक्षा

भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् ।
एकान्तिभिरनुष्ठेय नित्यं समभिदध्महे' ॥

इति नित्यकर्तव्यं प्रक्रम्य उक्तम्----

'व्यर्थ वीक्ष्य गतं काल निर्विद्याहमित परम् । .
आराधयेय ध्यायेयं भजेयं पुरुषोत्तमम् ॥
कीर्तयेय नमस्येय चिन्तयेयमनारतम् ।
व्रजेय शरणं चेति निश्चित्य मनसा स्वयम् ॥' इति ।

 अत्र [१] ’गमयिष्यामि वासरान्' इत्यनेन प्रकृतस्य परमैकान्तिन

पाञ्चकालिकधर्माणा
स्वयप्रयोजनत्वम् ।

प्रकारान्तरेण कालयापनमशक्यमिति अच्छिद्रकैङ्कर्यस्य स्वयम्प्रयोजनत्वं व्यज्यते । तदेव हि कण्ठोक्त नारायणमुनिभि--


कि किं न साध्य भगवदाराधनपरैर्नरैः ।
वैष्णवाना विशेषेण स्वयमेतत् प्रयोजनम्' ॥ इति ।

 यदत्र धर्मार्थचिन्तन तदुपायभूतकायक्लेशचिन्तनं च स्मर्यते, तत्र कैङ्कर्यरूपो धर्म , तच्छेषभूतोऽर्थ [२] तयोर्गुरुलघूपायविवेकार्थ कायक्लेश चिन्तनम् । तत्र "न पूर्वाह्णमध्यन्दिनापराह्णानफलान् कुर्यात् यथाशक्ति धर्मार्थकामेभ्य तेषु च धर्मोत्तर स्यात्' इत्यादिभिगतमाद्युक्त [३]कामौपायिकप्रवृत्त्यशोऽपि 'धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ इत्युक्तसत्सन्तानोत्पादनादिमात्रार्थशास्त्रीयकामविषयतया गृहस्थस्य कैङ्कर्यपक्षे निक्षिप्यते ।

  1. तत्र- क, च, झ
  2. कैङ्कर्यरूपधर्मशेषभूत –घ, ड, छ
  3. कामोपाधिक-क, ख, ग, झ