पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
श्रीपाञ्चरात्ररक्षा

"उपेयादीश्वर चापि योगक्षेमार्थसिद्धये ।
साधयेद्विविधानर्थान् कुटुम्बार्थे ततो द्विज ” ॥ इति ।

एतच्च लौकिकेश्वराभिगमन गत्यन्तरहीनस्यापद्विषयम्। स्मरन्ति हि--------- "नगरप्रवेशनानि [१] च वर्जयेत्" इति । उक्त च [२] श्रीशाण्डिल्यस्मृतौ--

"बुद्धरुद्रादिवसति इमशान शवमेव च ।
अटवीं राजधानी च दूरत परिवर्जयेत्" ॥ इति ।

कालपञ्चककृत्य तत्र प्रपञ्चित [३] यथायोग सर्वैर्ग्राह्यम् । इदमेव चोपादान भगवदर्थत्वेन भगवच्छास्त्रेषु विधीयते । अत्रापि 'कुटुम्बार्थे' इति न केवलं तादर्थ्य विवक्षितम् [४] । तदुद्धे सर्वत्र प्रतिषेधात् । अगीयत च [५] स्वयं भगवता--

"यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन ।
तदर्थं कर्म कौन्तेय मुक्तसङ्ग समाचर " ॥ इति ।

अतो भगवदाराधनरूपयज्ञशिष्टेन कुटुम्बसंरक्षण कुटुम्बभरणमपि [६]मपि भगवदाज्ञानुपालनरूपमेवेति तद्विवक्षया महर्षिणा ' कुटुम्बार्थे' इत्युक्तम् । 'धर्ममर्थं च चिन्तयेत्' इत्यारम्भोक्तार्थचिन्तनमपि धर्मशेषतया । कायक्लेशचिन्तनं तु क्लेशरहितोपायगवेषणार्थम् । स्मरन्ति हि मन्वादय------

  1. प्रवेशनादि- क, झ.
  2. श्री--क, ख, ग, च, झ पुस्तकेषु नास्ति
  3. यथायोग्य-क, ख, ग, च, छ, ज, झ
  4. 'कुटुम्बार्थे’ इति वचने केवलतादर्थ्यमविवक्षितम्-क, ख, ग झ
  5. गीयते च- क, च, झ
  6. क, ख, ग, च, झ, कुटुम्बरक्षणमपि-ड, छ