एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता
स्तकेषु ईदृक् श्लोकान्तरं दृश्यते
'श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर । |
इति । तस्मात् श्रीसोमानन्दपादनिरूपित- व्याख्यानुसारेणैव यत् गुरवः समादिक्षन् त. देव सर्वस्य करोति शिवम् ।
एवं यतोऽयं कौलिको विधिः प्रभवति, यत्र च प्रतिष्ठापदवीं भजते, यन्मयं च इदं कौलिक, तदेवानुत्तरमित्युक्तम् । तत्र कस्तावत् कौलिको विधिः? कथं च अस्य प्रसरोऽनुत्तरात्?
कथं चात्रैव अस्य प्रतिष्ठा ? कथं च अनुत्तरैक-