संपादितेति ॥ संपादितं फलं लाभो, बाणाग्रं च यस्य सः । 'फलं लाभशराग्रयोः' इति शाश्वतः । सपक्षः ससुहृत् , कङ्कादिपत्रयुतश्च परेषां भेदकः शत्रुविदारणः बाणो बाणासुरः, शरश्च । गुणिना शौर्यादिगुणवता, अधि- ज्येन च तेन चैद्येन कर्मणे प्रभवतीति कार्मुकम् । 'कर्मण उकञ्' (५।१।१०३)। तेनैव संधानं संधिमेष्यति । अतो नैकाकीति भावः । अत्राप्युपमा श्लेषो वा मतभेदात् ॥ ९७ ॥
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥९८॥
ये चेति ॥ ये चोन्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्त- मोगुणात्मका अत एव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषो दुष्टरात्र्यंशौ' इति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनोऽनुयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' (३।३।३) इति णिनिर्भविष्यदर्थे । 'अकेनोर्भविष्यदाध- मर्ण्ययोः' (२।३।७०) इति षष्ठीप्रतिषेधाद्वितीया । यथा ध्वान्तं रजनीमुखमनु- याति तद्वदिति वस्तुनाऽलंकारध्वनिः ॥ ९८ ॥
ननु बाणादयोऽस्माभिः कृतसंधाना इदानीं न विराध्यन्तीत्यत आह-
उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ ९९ ॥
उपेति ॥ तेन चैद्येन कृतोऽल्पोप्युपजापो भेदः । 'भेदोपजापौ' इत्यमरः । त्वय्याकोपवतस्तान् बाणादीन् अनिलः साग्नीनेधानिन्धनानीव। 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्' इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपेर्ण्य॑न्ताल्लुट् । अन्तर्वैराः संहिताः आपदि सति रन्ध्रे सद्यो विश्लिष्यन्तीति भावः ॥ ९९ ॥
ततः किमत आह-
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥१०० ॥
बृहदिति ॥ बृहत्सहायो महासहायवान् क्षोदीयान् क्षुद्रतरोऽपि । 'स्थूलदूर-' (६।४।९५६) इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथा हि-अपां समूह आपम् । 'तस्य समूहः' (४।२।३७) इत्यण् । तेन गच्छती- त्यापगा नगापगा गिरिनदी महानद्या गङ्गादिकया संभूय मिलित्वाऽम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १०० ॥
किंच न केवलं शत्रोरसाध्यत्वं मित्रविरोधश्चाधिकोऽनर्थकर इत्याह-
तस्य मित्राण्यमित्रास्ते ये 1च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ १०१॥
पाठा०-१ 'ये चान्ये चो".