पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९३
एकोनविंशः सर्गः ।

द्विषां प्राणानहरत् । तथा हि-अन्यस्य परस्य सजीवतां न सेहे । अथवा अन्यस्य धनुषः सजीवतां सज्याकत्वं न सेहे । 'त्रिषु जीवति जीवः स्यान्मौर्व्यां स्त्री' इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १०१॥

॥ द्व्यक्षरः॥

   राजराजी सरोजाजेरजिरेऽजोजरोऽरजाः।
   रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १०२ ॥

 राजेति ॥ न जायत इत्यजोऽनादिः । 'अन्येष्वपि दृश्यते' (३।२।१०१) इति जनेर्डप्रत्ययः । न जीर्यते इत्यजरोऽनन्तः । पचाद्यच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः । रेजन्तीति रेजास्तेजिष्ठाः । रेज दीप्तौ' पचाद्यच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जातं रेजारिजूरजम् , तदूर्जं बलं अर्जयतीति रेजारिजूरजोर्जार्जी । अर्जेणिनिः । ऋजुरार्जववान् । जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाङ्गणे राजराजी राजश्रेणीः रुरोज बभञ्ज । 'रुजो भङ्गे' लिट् । अत एव रराज दिदीपे । द्व्यक्षरानुप्रासः ॥ १०२ ॥

   उद्धतान्द्विषतस्तस्य निम्नतो द्वितयं ययुः ।
   पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥१०३ ॥

 उद्धतानिति ॥ उद्धतान् दृप्तान् द्विषतः शत्रून्निघ्नतो हिंसतः । 'जासिनिग्रहण-' (२।३।५६) ब्इति सूत्रे निप्रेतिसंघातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्वितीयैव । तस्य हरेः शराः । पानार्थे धातौ 'पा पाने' इति धातौ सति रुधिरं, रक्षार्थे धातौ 'पा रक्षणे' इति भुवनं जगच्चेति द्वितयं ययुः । रुधिरमपिबन् भुवनमरक्षश्चेति श्लेषार्थः । अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगितालंकारः । तत्र ‘पानार्थे' इत्यादिवाक्यस्य शत्रुवधेन भुवनमरक्षनिति सूक्ष्मार्थगर्भत्वात्सौक्ष्म्यं नाम गुणः । 'अतः संकल्परूपत्वं शब्दानां सौम्यमुच्यते' इति लक्षणात् ॥ १०३ ॥  युग्मेनाह-

॥द्व्यक्षरः॥

   रारिकारी कोरेककारकः कारिकाकरः ।
   कोरकाकारकरकः करीरः कर्करोऽर्करुक् ॥ १०४ ॥

 क्रूरेति ॥ क्रूरानरीन् किरति विक्षिपति इति क्रूरारिकारी । किरतेर्णिनिप्रत्ययः । को मेरेककारकः एककर्ता । करोतेण्वुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । 'कारिका यातनावृत्त्योः' इत्यमरः । 'कृञो हेतु-' (३।२।२०) इत्यादिना ताच्छील्ये टप्रत्ययः । कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल् । तत्कर इति केचित् । कोरकाकारौ करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शैषिकः कप्प्रत्ययः । करिणो गजानीरयति क्षिप


शिशु० ४२