पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
षोडशः सर्गः ।

यां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । महतामधमेष्ववज्ञैव नीतिरिति भावः । दृष्टान्तालंकारः ॥२५॥  किंच राज्ञो हरिणा विरोधोऽपि न योग्य इत्याह-

 जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः ।
 विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥२६॥

 जितेति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः । लघुरल्पो जनस्तु सपदि क्रोधजितः । एवं विजितेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दुर्मतेर्मूर्खस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितर्योमैत्रीव स्पर्धापि न संगतेत्यर्थः । मूर्खश्चायं चैद्य इत्यप्रस्तुतात्सामान्याद्विशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ २६ ॥

 नापि चैद्यप्रलापैः कृष्णस्य किंचिल्लाघवमित्याशयेनाह-

 वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
 किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ २७ ॥

 वचनैरिति ॥ उद्धतैर्निष्ठुरैः असतां दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापैति खलु । और्वरैर्भौमैः । 'उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । रजोभिरवकीर्णस्य छन्नस्य मणेर्महार्घता महामूल्यत्वम् । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अपैति किम् । नापैत्येवेत्यर्थः । अत्र मणिमहीयसोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । महीयस इति सामान्याद्धरेरिति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः हरिमण्योरुपमाध्वनिश्च ॥ २७॥

 युक्तं चैतत्पारुष्यं दुरात्मनामित्याह-

 परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।
 परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥

 परीति ॥ यस्य देहिनो जन्तोः परितोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चिदपि नास्ति । अल्पकोऽतितुच्छः, स इति शेषः । यत्तदोर्नित्यसंबन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः स्वजनं । न तु मध्यस्थमिति भावः । तोषयितुमिच्छति किल ईहते खलु । अतोऽवश्यकर्तव्यमेतस्येत्यर्थः । चैद्यस्यापि निर्गुणत्वात्परदूषणं युक्तमिति । अत एवाप्रस्तुतप्रशंसाभेदः ॥ २८ ॥

 नन्वात्मनो निर्दोषत्वाभिमानादित्थं विजृम्भणमित्याशङ्क्याह-

 सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
 खगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ २९ ॥

 सहजेति ॥ असाधवः खलाः स्वदुर्नये स्वदोषे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां

पाठा०-१ 'परतोषयिता'.


शिशु० ३५