पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
अष्टमः सर्गः ।

  आनाभेः सरसि नतभ्रुवावगाढे
   चापल्यादथ पयसस्तरङ्गहस्तैः ।
  उच्छ्रायि स्तनयुगमध्यरोहि लब्ध-
   स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥२२॥

 आनाभेरिति ॥ नतभ्रुवा स्त्रिया सरसि आनाभेर्नाभिपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' (२।१।१३) इति विकल्पादसमासः । अवगाढे प्रविष्टे सति । गाहेः कर्मणि क्तः। अथ पयसश्चापल्याल्लौल्यात् । ब्राह्मणादिषु पाठात् ष्यञ्प्रत्ययः । तरङ्गैरेव हस्तैस्तरङ्गहस्तैरुच्छ्रायोऽस्यास्तीत्युच्छ्रायि उन्नतिमत् स्तनयुगमध्यरोहि अधिरूढम् । भिक्षुकपादप्रसारणन्यायादिति भावः । रोहतेः कर्मणि लुङ् । अथवा तथाहीत्यर्थः । लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः । कुतः कुत्र वा । सार्वविभक्तिकस्तसिल् । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसंभवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति द्वयोरपि लौल्ययोरभेदाध्यवसायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयसि कामित्वप्रतीतेः समासोक्तिः । तदुपजीवी चार्थान्तरन्यास इति संकरः ॥ २२ ॥

  कान्तानां कुवलयमप्यपास्तमक्ष्णोः
   शोभाभिर्न मुखरुचाहमेकमेव ।
  संहर्षादलिविरुतैरितीव गाय-
   ल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ २३ ॥

 कान्तानामिति ॥ लोलोर्मौ चपलोर्मिणि । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' (७।१।७४) इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । 'अरविन्दं महोत्पलम्' इत्यमरः । कान्तानां मुखरुचाऽहमेकमेव नापास्तं, किंतु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्संतोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । 'इत्थंभूतलक्षणे' (२।३।२१) इति तृतीया । ननर्तेव । 'न दुःखं पञ्चभिः सह' इति न्यायान्नृत्यति स्म । अत्रोर्मिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ॥ २३ ॥

  त्रस्यन्ती चलशफरीविघट्टितोरू-
   र्वामोरूरतिशयमाप विभ्रमस्य ।
  क्षुभ्यन्ति प्रसभमहो विनापि हेतो-
   र्लीलाभिः किमु सति कारणे रमण्यः ॥२४॥

 त्रस्यन्तीति ॥ चलाः शफर्यः यातुकामा मत्स्यः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । ताभिर्विघट्टितौ विद्धावूरू यस्याः सा अत एव त्रस्यन्ती बिभ्यती ।

'वा भ्राश-' (३।१।७०) इत्यादिना विकल्पात् श्यनि शतरि ङीप् । वामौ सुन्दरावूरू यस्याः सा वामोरूः स्त्री। 'संहितशफलक्षणवामादेश्च' (४।१।७०) इत्यूङ्प्रत्ययः । विभ्रमस्य विलासस्यातिशयमाप । तथा हि-रमण्यो हेतोर्विनापि