पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
शिवार्चनाचन्द्रिकायाम्

क्षिणमावश्यकम् । ‘पदात्पदान्तरं गच्छेत् 'करौ चलनवर्जितो. } स्तु- तिर्वाचा हृदिध्यानं चतुरङ्गं प्रदक्षिणम् ॥ आसन्नप्रसवा नारी तैलपूर्ण यथा घटम् । वहन्तीशनकैर्याति तथा कुर्यात् प्रदक्षिणम्’ । तत् प्रद क्षिणं त्रिविधम् ॥ सव्य मपसव्यं . सव्यापसव्यं चेति । देवं स्त्रस्य । दक्षिणभागेकृत्वा क्रियमाणं सव्यम् । तद्विपरीत मपसव्यम् । उभयं मि- ळितं सव्यापसव्यम् । त्रिविधमपि इन्द्रदिगादीन्द्रदिक्पर्यन्तं कर्तव्यम् । सव्यापसव्यं सोमसूत्रस्थानादि सोमसूत्रस्थानान्तं वा कर्तव्यम् । तत्र सव्यं ब्रह्मचरणा मपसव्यं यतीनां सव्यापसव्यं गृहिवानप्रस्थयोरिति क श्चन पक्षः । सव्यं साधारण मपसव्यं यतीनामेव सव्यापसव्यं दीक्षिताना मेवैल्यपरः पक्षः ॥

प्रणामविधिः ॥


प्रणामश्चतुर्विधः । अष्टाङ्गः पश्वङ्गयङ्ग एकाङ्गश्च । अष्टा द्विविधः । दण्डप्रणामः केवलप्रणामश्च । पद्यां कराभ्या मुरसा शिरसा वाचा क्रियमाणो दण्डप्रणामः । पादद्वयेन । करद्वयेनोरसा शिरसा बांचा मनसा धिया दृष्ट्याच क्रियमाणो दण्डप्रणाम इति पक्षान्तरम् । अत्र मनसेयनन्यमनस्कत्वमुच्यते । धियेति शिवमहिमानुसन्धानरूपस्तोत्रे विविच्यत इति भेदः । पादद्वयेन जानुद्वयेन करद्वयेन उरसा शिरसा म नसा वाचा दृष्टशच क्रियमाण इत्यपि पक्षान्तरम् । पादद्वयेन बाहुद्वयेन उरसा शिरसा मनसा वाचा दृष्टय च क्रियमाण इत्यपि कश्चन पक्षः। शिर सा हस्ताभ्यां कर्णाभ्यां चिबुकेन बाहुभ्यांच भुवं संस्पृश्य क्रियमाणः । केवलप्रणामोऽष्टाङ्गः । शिरसा हस्ताभ्यां जानुभ्यांच भुवं स्पृष्ट्वा क्रियमाणः पश्वङ्गः । शिरो हस्तौ बाहूच जानुनि निधाय क्रियमाणः पश्वङ्ग इति प