पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
पञ्चाक्षरजपविधिः ॥

ह्कण्ठतालुभृन्नलरन्ध्रस्थानेषु तान्कमात् । व्यक्त्वा व्यक्स्वाऽस्त्रमन्त्रांशं विद्युलेखानिभं बुधः ॥ मन्तं नादान्तमुच्चार्य मूलाधारगतं पुनः । गमागमप्रयोगेण जपेत्साष्टशतं तथा । अष्टाविंशतिमष्टौवा गुरुणाचयथोदितम् । इत्थं ङ्वा जपं मन्त्री शिवसायुज्यमाप्नुयात् ॥ जपश्चभ्यन्तर्याऽकारादिक्षकारान्तवर्णमालारूपया बाह्या रुद्राक्षा दिनिर्मितया च कर्तव्या । तन्त्रान्तर्या जपप्रकरः कथ्यते । ब्रह्मरन्धे धबळाष्टदळचतुरश्रयंत्रमुपरि श्रितं पत्रं भावनीयम् । तस्य कणिकायां व्योम तत्पूर्ववर्ण चतुर्दशस्त्ररविसर्जनीयसमुदायरूपं बीजं केसरेष्वष्ट स्त्र रद्वंद्वानि दळेषु कादयः पञ्चपञ्च वर्णाः चतुरश्रयन्त्रस्य दिक्षु सुधाबीजं विदिक्षुच सप्तमो वर्णः । एवंरूपमातृकं पत्रं भावनामात्रेण विशेषरो गमृत्युहरम् । ततो द्वारक्रमेचानुद्गतत्रायुसंधुक्षितमूलाधारान्निरीखया कु ण्डलिनीशक्त्या सह सुषुम्नारन्ध्र प्रविइप ब्रह्मरन्ध्रपर्यन्तमुद्गतेडास्पृष्टात्तस्मा न्मातृकापद्मास्यंदितां क्षकाराद्यकारान्तवर्णपद्भिरूपाममृतबिन्दुसन्ततिं ब्रल रन्ध्रप्रभृति मूलाधारपर्यन्तं व्याप्याचतिष्ठमानां भावयेत् । या कुण्डलिनी शक्तिः मूलाधारान्निशिखासामरस्येन प्रकाशमानसुषुम्नामार्गेण ब्रह्मरन्ध्रपर्य- न्तमुद्वता सैव मातृकापद्मविद्रुतामृतविन्दु स्यंद सन्ततिसामरस्येनामृताय माणा परमानन्दरूपिणी मातृकाशक्तिरितिभावयेत्। तदाहुः—प्रकाशमानां प्रथमप्रयाणे प्रतिप्रयाणे त्वमृतायमाणाम् । अन्तःपदव्या मनुसञ्चरन्ती माणन्दमुद्रा मवलोकयामःइति । ब्रह्मरन्ध्रस्थितमातृकापद्मप्रभृत्यकारादि क्रमेण मूलाधारपर्यन्तं व्याप्य स्थितायां मातृकारूपायां शक्तवकारादि- भिरष्टभर्बणं रेवर्गः ऋकारादिभिरष्टाभिरन्यः ककारादिभिः पञ्चभिः पञ्च