पृष्ठम्:शिवलीलार्णवः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
शिवलीलार्णवे


स्वेदरज्यदलिकान्तनिमज्जदूधूसरा *ळकतयाधिकदृश्यम् ।
आननं विकसितेक्षणमस्या ध्यानमङ्गलमभूद् भुवनानाम् ॥ ५८ ॥
सावतीर्य शिबिरप्रतिहारे सैनिकान् समनुगृह्य कटाक्षैः ।
कल्पितं सुमतिना बहुकक्ष्यं पाण्डरं पटगृहं प्रविवेश ॥ ५९ ॥
आवृतं बहुभिरावरणैस्तद् दीर्घिकोपवनशोभितमन्तः ।
सा मणीकलशसम्भृतमुच्चैर्दर्शितं सुमतिना विलुलोके ॥ ६० ॥
अत्युदारमवबद्धवितानं क्लृप्तमञ्चमुपबर्हविशोभि ।
धूपितं कुसुमदामसुगन्धि प्राविशच्छयनमन्दिरमम्बा ॥ ६९ ॥
यत् सहस्रदलमागमगम्यं पङ्कजं विमलचिन्मयमस्ति ।
न्याञ्चतं तदिव कौतुकहेतोः पाण्डरं पटगृहं शुशुभेऽस्याः ॥ ६२ ॥
सा निविश्य मृदुले शयनीये सविसृज्य सुमतिं शुभयोक्त्या ।
अध्वखेदमवरोपितभूषा सल्लपन्त्यपजहार सखीनाम् ॥ ६३ ॥
विश्रमय्य बलमेतदुपेतं सन्निपात्य च चमूमनुयान्तीम् । :
श्वो निषद्य सुखमत्र परश्वो याम इत्याभिदधे सचिवेन ॥ ६४ ॥
संवृते पयसि सह्यपुताया भित्तिभिर्नवदुकूलमयीभिः ।
क्ऌप्तमज्जनविधिः सवयोभिः + सोपसज्य विजहार कुमारी ॥ ६५ ॥
मुक्तपल्ययनविश्रमिताश्वं सस्तबन्धसुखितद्विपसङ्घम् ।
स्नातपीतसुखसुप्तभटं तच्छासनेन सुमतेर्बलमासीत् ॥ ६६ ॥
सापरेद्युरधिरूह्य सञ्चरन्त्यवनिपालकुमारी ।
तृप्तिमाप न कवेरसुतायाः कामनीयकमवेक्षमवेक्षम् ॥ ६७ ॥
तत्प्रतीरभुवि केरतरूणां हस्तलभ्यमुपयुज्य फलाम्भः ।
निर्जरा विधुकलामृतभागानापिबन्ति सकृदौषधरीत्या ॥ ६८
तज्जलं निपतितं क्वचिदन्तः स्तब्धमास्त किल यत्र पयोधेः
तत्प्रदेशविषयस्तनुभाजामिक्षुसारजलधिव्यवहारः ॥ ६९ ॥
सा वहेत यदि सर्वपथीना किं न सा त्रिपथगार्धममुष्याः ।
अर्थमेनमवबुद्ध्य जनास्तामर्घजह्नुतनयेति गृणन्ति ॥ ७० ॥



  • “धिकतरालक' इति खपुस्तके पाठः. + 'पभुज्य' इति कपुस्तके पाठः.