पृष्ठम्:शिवलीलार्णवः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
शिवलीलार्णवे


जय जननि ! जय त्रिलोकवन्द्ये ! जंय गलितावरणात्मा चेत्स्वरूपे ! ।
किमिह मनुजताभिनीतिमात्राद् भवति तमोभिभवः परस्य धाम्नः ॥ ४६ ॥
अभिनयमवधूय मानुषीणामवसितकल्पमलं प्रपन्नमेनम् ।
त्वरितमनुगृहाण तीव्रपातैर्मलिनिमभङ्गनिरङ्कुशैरपाङ्गैः ॥ ४७ ॥
नियमय जननीं दुरूहरूक्षां परिणयकर्मणि ते प्रदानहेतोः ।
स्वमृणमियमपाकरोतु गौरीवितरणपुण्यसमुच्चयेन भर्तुः ॥ ४८ ॥
इति कलशभवेन बोधिता सा जगदरणिर्जनकं चिरात् प्रपन्नम् ।
अमनुत परमे पदे निधातुं सुलभामियाच्छ्रतरक्षणं हि तस्याः ॥ ४९ ॥
प्रपदनपदवीजुषां जनानामनुपरतेऽप्यपवर्गदानसत्रे ।
किमिव हि जनके कृतं मयासीदिति हृदि सा किल जिह्वयाग्बभूव ॥ ५० ॥
प्रवससि यदि तात ! हा हताहं न गणय वत्स ! भयं कुतश्चनेति ।
व्यतिकरितपरावरात्मभावा व्यवहरति स्म परापि देवता सा ॥ ५१ ॥
भुवमथ भुजयोः श्रियं दृगन्ते चरणयुगे हृदयं च जीवितं च ।
विनिदधदयमात्मदेवताया विगतभयो मलयध्वजोऽवतस्थे ॥ ५२ ॥
अथ दुहितुरनुग्रहेण तस्मिन् प्रविशति गर्भगृहं शशाङ्कमौलेः ।
निभृतमवलुलोकिरे समस्तास्तदनु च तत्र महेशलिङ्गमात्रम् || ५३ ||
चिरपरिचितभर्तृविप्रयोगव्यसनपराहतिमूर्च्छितां सवित्रीम् ।
स्वयमपि परिरभ्य स्विद्यमानां कलशभवः पुनरम्बिकां बभाषे ॥ ५४ ॥
किमिदमनुचितं पुनः प्रवृत्तं कियदियता भविता न दुःखमस्याः ।
अपनय तमसा कृतं जनन्यामलमभिनीय मनुष्यभूमिकां स्वाम् || ५५ ।।
यदि भवसि शिवे! जगच्छरण्या यदि च भवद्वचनानि वेदवादाः ।
† त्वयि कृतमनसि त्वयि प्रलीने पितरि च ते किमु सन्ति शोचितारः ॥ ५६ ॥
इति विदितपरावरेण देवी कलशभवेन महर्षिणानुनीता ।
अखिलकलुषभञ्जनैरपाङ्गैरनुजगृहे सुमतिं च मातरं च ।। ५७ ॥
तदनु भुवनमङ्गले मुहूर्त्ते प्रकृतिभिराप्तजनैः पुरोधसा च ।
संविधमुपगमय्य चन्द्रमौलेर्मणिखचिते निदधे वरासने सा ॥ १८ ॥



+ ‘अधि' इति_खपुस्तके पाठः,