पृष्ठम्:शिवलीलार्णवः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
तृतीयः सर्गः।


जगतो जगदीश्वरस्य च श्रीर्भवती यद्यपि सर्वतोऽस्ति पूर्णा ।
करुणामयमुत्सहे न हातुं तव मीनाक्षि ! तथापि रूपमेतत् ॥ ८०॥
हरयस्त इमे महावनेऽस्मिन्नयमिन्द्र[१]दुरसावपीन्द्रवल्ली ।
मम नामजुषः स्थिता यदेते मम सेवेयमिति प्रतीच्छ मातः ! ॥ ८१ ॥
कति सन्तु न वेधसः कतीन्द्रास्तव मीनाक्षि ! तरङ्गितैरपाङ्गैः।
किमधश्च्यवते मया विना द्यौः कृपणं मां घटयस्व किङ्करेषु ॥ ८२ ॥
व्यगलद् दनुजेषु मत्सरो मे विरराम त्रिदिवोपभोगरागः ।
स्थगिता बहिरेव वृत्रहत्या भवतोरद्य मयि प्रसादलेशात् ॥ ८३ ।।
इति तं प्रणिपत्य संस्तुवन्तं प्रथमं भक्तिमतां पतिं सुराणाम् ।
अनुगृह्य दयोर्मिलैरपाङ्गैरगदिष्टामिदमादिमौ युवानौ ॥ ८४ ॥
आद्यस्त्वमेषामसि पार्षदानां कुमारयोश्चाम्यनयोस्तृतीयः ।
जानीवहे ते परमां च भक्तिं विद्राविता सा तव वृत्रहत्या ॥ ८५ ॥
वासन्तिकप्रथमपर्वसु वासव! त्वमित्थं समेत्य सकलैरनुयायिवर्गैः ।
आविश्वपारनगराभिमुखात् प्रयाणादभ्यर्च नौ कनकवारिरूहैरमीभिः ।। ८६ ।।
इत्युक्ते सति जगदादिदम्पतिभ्या
मिन्द्रस्तद्गुरुरितरेऽनुयायिनश्च ।
प्रस्थानप्रणतिपरम्पराभिरेता
वन्योन्याभ्यधिकदयामयौ वितेनुः ॥ ८७ ।।
आमन्त्र्य द्विरदेन्द्रवक्रमसकृत् सम्प्रार्थ्य नन्दीश्वरं
सम्मान्य प्रमथान् निवेद्य सकलं चण्डेश्वरं शाम्भवम् ।
आशीर्भिः प्रतिनन्दितो मुनिगणैरापृच्छ्य वाचस्पतिं
दिव्येन द्विरदेन निर्मलतरो देवः प्रतस्थे पुरीम् ॥ ८८ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे तृतीयः सर्गः ।

  1. १. इन्द्रद्रुः गुल्गुलुवृक्षः.