कारकवि भक्त्यधिकारः ७९
२७१. अवश्यंकारी कटस्य ।
२७२. देवतायतनस्य प्रदक्षिणं कुर्वन्ति प्रणताः ।
२७३. ग्रामं गन्तुमनसोऽपि वयं परवन्त इति प्रतिहतगतयः ।
२७४. तान्मन्त्रोपदेशं विधाययतिवराः क्षिप्रं प्रतिप्रतस्थिरे ।
२७५. न्यायाद्रिकूटमधिरूढगिरां गुरूणां चरणौ नमामि (श्रीकेशवदिग्-
विजयसारे १०।५)।
२७६. य उदास्ते दोषहान्यै प्रेक्षावत्सु न गण्यते ।
२७१. आवश्यकाधमर्ण्ययोर्णिनिरिति अवश्यंकारीत्यत्र णिनिः । अकेनो-
भविष्यदाधमर्ण्ययोरिति निषेधस्य नायं विषयः । आवश्यकेऽत्र
णिनिः, न भविष्यति । तेन कटस्येति षष्ठी साध्वी ।
२७२. देवतायतनं प्रदक्षिणं कुर्वन्तीत्येवं न्यसनीयम् । प्रदक्षिणमित्यव्य-
यम् । अन्यत्रानव्ययं चापि । यदानव्ययं तेदा देवतायतनं प्रद-
क्षिणी कुर्वन्तीति शोभनो न्यास: । षष्ठ्यास्तु नोभयत्र प्रसङ्गः ।
च्वेरभावे देवतायतनानि प्रदक्षिणानि कुर्वन्तीत्येवमपि शक्यं
वक्तुम् ।
२७३. पदं हि पदान्तरेणान्वेति न तु तदेकदेशेन इति गन्तुमनस इत्ये-
तदेकदेशेन गन्तुम् इत्यनेनानन्वयाग्रामम् इत्यत्रानुक्ते कर्मणि
द्वितीयाऽयोगाद् ग्रामे गन्तुमनसः (गमनेच्छावन्तः) इति वैषयिके-
ऽधिकरणे सप्तमी प्रयोगमर्हति । कवयसु एकदेशेनान्वयमभ्यु-
पेत्य बहुलं द्वितीयां प्रयुञ्जाना दृष्टा:-मद्गोत्राङ्कं विरचित-
पदं गेयमुद्गातुकामा (उत्तरमेधे)।
२७४. तेषां मन्त्रोपदेशं विधायेति शैषिकी षष्ठी प्रयोज्या, तादर्थं वा
तेभ्य इति चतुर्थी व्यवहार्या । द्वितीया तु कथमप्युपपत्तिमती न ।
२७५. अधिरूढगिराम् (अधिरूढा गीर्येषां तेषाम् कर्तरि क्तः) इत्येत-
देकदेशेनाधिरूढशब्देनानन्वयानन्यायाद्रिकूटमित्यत्रानुक्ते कर्मणि
द्वितीया न संभविनी । तेनान्वयाय सामर्थ्यलाभाय न्यायाद्रिकूटा-
धिरूढगिरामित्येवं समासेन वक्तव्यम् ।
२७६. दोषहानाविति विषयसप्तम्या वक्तव्यम् ।