कारकाविभक्त्यधिकारः ६९
१९१. नगरवर्णनमपि सिद्धगवीनां१ कवीनां प्रतिभापरीक्षायै निकष:
परिगण्यते ।
१९२. नाहमन्येषां सम्राजामिव स्वं जीवितं विषयोपभोगे क्षपयितुमीह
इति सुतं प्रत्यवरङ्गजीवस्य हृदयोद्गारः ।
१९३. दुर्जनः सर्वैरविशेषेण विश्वासघातं करोति । स तस्य स्वो भावः ।
१९४. कौसल्यया रामो जातः सुमित्रया च लक्ष्मणः, तथाविधं च तयोः
सौभ्रात्रमिति१ चित्रीयते २ लोकम् ।
१९५. इदं तु भवतां विदितचरमेव संस्कृताधीत्यामनुरक्तोऽहं न किम-
प्याभीलमगण्यम्३ ।
१९६. फलैर्नारसैः शुद्धै: स्वादुशीतैश्च वारिभिः । तृप्तास्तां४ भ्राज-
थुमतीमपृच्छन्कस्य पूरियम् (भट्टि०) ।
१९१-प्रतिभापरीक्षायै निकष इति साधु । तादर्थ्ये चतुर्थी ।
१९२. अन्येषां सम्राजामित्यत्र षष्ठी सुतरामनुपपन्ना । उपमानोपमेययो
सामानाधिकरण्यस्य नियमात् । वस्तुतस्त्वत्र क्रियातौल्ये वतिः
प्रयोक्तव्यः । अन्यसम्राड्वदिति । विषयोपभोगेनेति च वक्तव्यम् ।
१९३. सर्वेषामिति साधु । इह सहार्थो नाम कश्चिन्नास्ति, येन तृतीया
प्राप्नुयात् । सर्वेषां विश्वासः, तस्य धातः। विश्वासघात इत्य-
समर्थसमासः ।
१९४. कौसल्यायां सुमित्रायामिति च वक्तव्यम् । अधिकरणत्वविवक्षै-
वात्र लौकिकी प्रसिद्ध ति सप्तम्येव व्यवहारमनुगता।
१९५. विदितचरमित्यत्र भूतपूर्वे चरट् । तेन वर्तमानार्थता नास्ति ।
चरट् च तद्धित इति क्तेन कृत्प्रत्ययेन भवच्छब्दस्य साक्षाद्योगो-
ऽपि नास्तीति षष्ठ्यप्राप्तेरनुक्ते कर्तरि तृतीयैव साध्वी।
१९६. अत्र भट्टिप्रयोगे फलशब्दे तद्विशेषणेषु च षष्ठी प्रायो व्यवहारा-
नुपातिनी स्यात् । पूरणगुणसुहितार्थे ति सूत्रे सुहितार्थग्रहणा-
ल्लिङ्गाज्ज्ञापकात्तद्योगे वाक्ये षष्ठी साध्वी । ज्ञापकसिद्धं न
सर्वत्रेति तृतीयाप्रयोगोपि क्वाचित्को नासाधुरिति वाग्योगविदः ।
१. सिद्धा गौः वाग् येषाम्, तेषाम् । सिद्धगूनाम् इति सु युक्तम् । बहुब्रीहौ
टचो दौर्लभ्यात् । १. शोभनो भ्रातास्येति सुभ्राता। वन्दिते भ्रातुः.
कबभावः । तस्य भावः सौभ्रात्रम् । २. चित्रीकरणं विस्मयनं विस्मापनं
च । तेन लोकमित्यत्र द्वितीयोपपन्ना । ३. आभीलं कष्टम् ।
४. दीप्तिमतीम् ।