विसर्गसन्ध्यधिकारः १७
३. निःप्रमाथो१सहोद्योगः श्रीगान्धिनो नयस्य मुख्यमङ्गम् ।
४. आयुःकामो व्यायामी पथ्याशी स्त्रीषु जितात्मा नरो न रोगी
स्यादिति नित्यं मनसि कुर्यात् ।
५. चित्ताभोगो मनःकार इति केचिदधीयते । तत्र दोषं विभावय ।
६. गव्यसर्पिष्पात्त्राणोमानि१ किमीयानीति वेत्थ किम् ?
७. मान्याः सदसस्पतयः! बालोऽहमप्रगल्भवाक् । न मया परिशीलित-
चरं भाषणं सभासु । तेनोपेक्ष्या मे वाचि दोषा इति विनीतवत्
प्रार्थये ।
८. परिवृत्ता सम्प्रति स्थितिः । दुराचारा अपि जातिपङक्तिभ्यां
बहिः कर्तुं न शक्यन्ते ।
९. कपाटं कश्चिदाहन्ति । कः कोऽत्र भोः ।
१०. सेयमुभयतस्पाशा रज्जुः ।
३. निष्प्रमाथ इत्येव युक्तम् । पूर्वगत एव हेतु:
४. नित्यं समासेऽनुत्तरपदस्थस्येति नित्ये षत्व आयुष्काम इत्येव
न्याय्यम् ।
५. मनःकार इत्यपपाठः । अतः कृकमिकसेत्यादिना विसर्जनीयस्य
सकारेण भवितव्यम् ।
६. गव्यसर्पिःपात्राणीति वाच्यम् । नित्यं समासे इति सूत्रेऽनुत्तर-
पदस्थस्येति पर्युदासात्षत्वं न । गव्यसर्पिरित्यत्र सर्पिरुत्तर-
पदम् । पात्राणीत्यत्र च द्वित्वं दुर्लभम् । दीर्घादाचार्याणामिति
निषेधात् ।
७. सदसः पतय इत्येव निर्दुष्टं वचः । षष्ठ्याः पतिपुत्रपृष्ठपारपद-
पयस्पोषेषु(८।३।५३) इति च्छन्दसि षष्ठीविसर्जनीयस्य सकार-
विधिर्न तु भाषायाम् । छन्दोवत्कवयः कुर्वन्तीति दुर्बलः समाधिः ।
८. बहिष्कर्तुमित्येव युक्तम् । उपपत्तिस्तु बहुशः पूर्वत्र निर्दिष्टा ।
९. कस्क इत्येव न्याय्यम् कस्कादिषु चेति शास्त्रात् ।
१०. उभयतस्पाशेति साधु । अविहितलक्षण उपचारः कस्कादिषु
द्रष्टव्य इति वृत्तिकारः । स्पश बाधनस्पर्शनयोरित्यस्माण्णे स्पः-
शेति वोत्तरपदम् । खपरे शरि वा विसर्गलोप इति वा समा-
धानान्तरम्
१. कस्येमानि किमीय:नि । २. दुष्ट आचारो येषां ते दुराचाराः (बहुव्रीहिः) ।