पृष्ठम्:शङ्करविजयः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
200
शङ्करविजये

नित्या वर्णास्स1र्वगाः श्रोत्रवेद्या
यत्तद्रूपं शब्दजालञ्च नित्यम् ।
द्रव्यं व्यापीत्य​ब्रुवज्जैमिनीयाः
इत्येवं तं प्रोचिवान् देशिकेन्द्रः ॥ ५४ ॥

शास्त्रेषु सर्वेष्वपि दत्तवन्तं
प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाट्य ददुश्च​ मार्गे
ततो विवेशान्तरभूमिभागम् ॥ ५५ ॥

अथारुरुक्षौ मुनिपुङ्गवेऽस्मिन्
सर्वज्ञपीठं बहुवेदि2सेव्यम् ।
मास्मिन् प्रविक्षो मुनिपुङ्गव त्वं
विद्यासु सर्वासु परीक्षणीयः ॥ ५६ ॥

प्रादुर्बभूवेत्थमनङ्ग3सङ्ग्रहा
प्रसन्नगम्भीरपदा सरस्वती ।
शृण्वत्सु सर्वेषु सविस्म​यं तदा
महीध्रदर्या इव देवतामुखात् ॥ ५७ ॥

श्रुत्वा गिरं पार्श्वनिवासिनो जनाः
तमाहुराचार्यममत्सरग्रहाः ।
न मानुषी वागियमक्षरात्मिका
विनिर्गता केवलमम्बिकामुखात् ॥ ५८ ॥

त्वाञ्चान्तरा यवनिकां परमेश्वरीञ्च​
कांचिन्निधेहि भगवंस्तदनुक्रमेण ।
अग्र्यां गिरं प्रविहितां वितरेः परीक्षितां
सर्वज्ञपीठमनुसङ्गय जोषमास्स्व ॥ ५९ ॥


1अ. सर्वशः । 2अ. देवि ।

3अ. सुग्रहा ।