वृत्तिः धर्म इति पूर्वोपपादितनियमानुसारेण सतो धर्मित्वं, वाय्वादीनामाकाशवत् सद्धर्मत्वं च सिद्धम् । अत्र धर्मिणः पृथक्करणे धर्माणामविद्यमानत्वमित्यादिकमाकाशवदित्यादि सर्वं क्रमेणैकदेशगतत्वकथनेन संगृहीतमिति बोध्यम् ॥ ७८ ॥
तथैव सद्वायुविवेंचनप्रयोंजकीभूतां वायोस्त्रिस्वभावतामाह, शोष इति ।
शोषस्पर्शौ गतिर्वेगः वायुधर्मा इमे मताः। |
शेषस्पर्शौ शोषो द्रवत्वहरणम्, शोषस्पर्शौ गतिर्वेगश्च, इमे गुणाः वायुधर्माः । वायोः स्वीया धर्मा इति मताः । तद्गतान् कारणधर्मानाह सदिति । सन्मायाव्योम्नां त्रयो ये विद्यन्ते स्वभावाः तेऽपि वायुगाः॥ ७९ ॥
वायौ तद्धर्मसत्त्वं प्रतिपादयति, वायुरिति ।
वायुरस्तीति सद्भावः सतो वायौ पृथक्कृते । |
वायुरस्तीति सद्भावः सत्तारूपः सद्धर्मः। धर्मिणस्सतो वायौ पृथक्कृते सति सिद्धा निस्तत्त्वरूपता मिथ्यास्वरूपत्वं मायास्वभावः, धर्मिणमन्तरा धर्मस्याविद्यमानत्वात् । अयं मायास्वभावः । तृतीयो व्योमगो धर्मः ध्वनिः ॥ ८० ॥
ननु वाय्वादिष्वनुवृत्तं सन्नतु व्योमेत्यादिना बाय्वादिषु व्योमानुवृत्तिः पुरा निराकृता।अधुना वायौ व्योमगुणानुवृत्तिकथनेन व्योम्नोंऽनुवृत्तिरुक्त प्राया । कथं न विरोध इत्याशंकते, सत इति ।
सतोऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरेरितम् । |
सर्वत्र सतोऽनुवृत्तिः “भिन्ने वियत्सती ” त्यत्र पुरेरितमुक्तम्; अधुना व्योमानुवृत्तिः व्योम्नो गुणानुवृत्तिक्रथनमुखेन वायावीरिता ईरितप्राया; एवं च तव वचः कथं न व्याहतं परस्परविरुद्धं न भवति ॥ ८१ ॥