आसी"(छां. ६.२.१.दित्यादिवाक्यजातम्। युक्तिरनुवृत्तिव्यावृत्तिस्वरूपा। ताभ्यां विवेचनं कोटथन्तरव्यावृत्तिं कुरु । ततो रूढथभावहेतुभूतयोरनैकाग्र्यसंशययोर्निवृत्त्यनन्तरं जातां बुद्धिं निश्चयात्मिकां निश्चित्य बुद्धेऽर्थे रूढतमोऽत्यन्तविश्वसयुक्तो भवेत्॥७३॥
उक्तिध्यानविवेचनयोःसाक्षात्परंपराफलें आह,ध्यानेति ।
ध्यानान्मानाद्युक्तितोऽपि रूढे भेदे वियत्सतोः । |
एवं ध्यानाच्चित्तैकाग्र्यान्मानात्प्रमाणाद्युक्तितोऽपि वियत्सतोर्भेदे रूढे । दृढतमं निश्चिते सति । एतेन साक्षात्फलं भेदनिश्चय इति सूचितम् । वियत्कदाऽपि न सत्यं सर्वथा मिध्यैवेति भासते । सद्वस्तु च छिद्रवत् अवकाशवन्न भासते । एतेनाकाशस्य सत्यत्वेन भानाभावः फलमिति तदेव ध्यानयुक्त्योर्मुख्यं फलमिति च सूचितम् ॥ ३४ ॥
तदर्थमेवान्वयव्यतिरेकाभ्यामाह, ज्ञेति ।
ज्ञस्य सदा भाति व्योम निस्तत्त्वोल्लेखपूर्ववत् । |
ज्ञस्य ज्ञानिनस्सदा व्योम निस्तत्त्वोल्लेखपूर्वकं निर्गतं तत्त्वात् याथार्थ्यात् निस्तत्वं तस्याल्लेखः ज्ञानाभिलापकः शब्दः तत्पूर्वकं मिथ्यात्वेनैव भाति प्रतीयते । अस्य ज्ञानिनः सद्वस्त्वपि निश्छिद्रत्वपुरस्सरं छिद्राभाववत्वेन विभाति स्फुरति ॥ ७५ ॥
आकाशस्य मिथ्यात्वस्य सतः सत्यत्वस्य च चिन्तनाफलमाह, वासनायामिति ।
वासनायां प्रवृद्धायां वियत्सत्यत्ववादिनम् । |