सद्वस्तु अधिकवृत्तित्वादधिकदेशवृत्तित्वात् धर्मि भवति । व्योम्नस्तु न्यूनदेशवृत्तित्वाद्धर्मता । धर्मस्य धर्मिवृत्तितया धर्मिणोऽधिकदेशवृत्तित्वं धर्मस्य । न्यूनदेशवृत्तित्वं च लोके सामान्यतो दृष्टम् । एवं प्रकृतेप्यधिकदेशवृत्तेस्सती धर्मित्वं न्यूनदेशवृत्तेराकाशस्य धर्मत्वं च निश्चेयम् । न तु तद्वैपरीत्येण। लोके वैपरीत्येण व्यवहारस्तु वस्तुतत्त्वानवबोघमूलक इति च बोध्यम् । एवं धर्मधर्मिभावे स्थिते धिया सतः पृथक्कारे सतो धर्मिभूतस्य विवेचने धर्मस्य धर्मिव्यतिरेकेणावर्तनाद् व्योम किमात्मकं ब्रूहि किं स्वरूपमवतिष्ठेतेति वद ।। ६८ ॥
नन्वाकाशात्सद्बुद्धैः पृथक्करणानन्तरमप्यवकाशात्मकस्वरूपेणाकाशो विद्यत एवेति प्रतिवादिवादोऽसंगत इत्याह, अवकाशेति ।
अवकाशात्मकं तच्चेदसत्तदिति चिन्त्यताम्। |
आकाशस्य सतः पृथक्करणानन्तामवकाशात्मकं वियदस्तीति वदसि चेत्तदवकाशात्मकमसदिति सद्व्यतिरिक्तमिति चिन्त्यतां निश्चीवताम् । तर्हि किंमापतेत् । सतो भिन्नमसत्तयाप्यसन्नेति वक्षि चेत् तव वचसो व्याहतिः परस्परविरोधः । तव व्याहतिरित्युक्त्या सदसद्विलक्षणमिथ्याभूतवस्त्वङ्गीकर्तृणां नायंव्याघात इति सूच्यते ॥ ६९ ॥
अवकाशात्मक आकाशोऽसन्नपि कथं भासत इत्याशंक्याह, भातीति ।
भातीति चेद्भातु नाम भूषणं मायिकस्य तत् । |
अवकाशात्मक आकाशः सतः पृथक्करणानन्तरमपि भातीति वक्ष्यसि चेद्भातु नाम । किं तु तद्भानं मायिकस्य मायाकार्यस्य भूषणमलंकार एव।यदसद्वस्तु मरुमरीचिकेवाविद्यमानमपि विद्यमानमिव भासमानं तत् स्वप्रगजादिक्त् मिथ्यामात्रमेव ॥७० ॥