स परमात्मा भूमिं जगद्विश्वतः समन्ततो वृत्वा दशाङ्गुलमत्यतिष्ठत् तदतिरिच्यातिष्ठत् । नात्र दशशब्द: केवलदशत्वसंख्यावाचकः । किं तु जगदपेक्षया तस्य भूयस्त्वबोघनपर एवेति श्वेताश्वरश्रुतिः (३.१४.) न परब्रह्म विकारावर्ति च विकाराः सूर्यमंडलादयः । तेष्ववर्ति न तावन्मात्रपरिच्छिन्नः। अत्र अस्मिन् विषये श्रुतिसूत्रकृतोर्वच ।श्रुतेर्वच: पूर्वार्धे उक्तम् । सूत्रकृतो वचस्तु “विकारावर्ति च तथा हि स्थितिमाहेति” (४.४.१९.) सूत्रे इति ॥ ५७ ॥
मायायाः परब्रह्मैकदेशभाक्त्वकथनेन तस्य सावयवत्वप्राप्तिमाशंक्याह । निरंशइति ।
निरंशेऽप्यंशमारोप्य कृस्नेंशे वेति पृच्छतः। |
सुलभा पदयोजना। द्वैतभाषामाश्रित्य पृच्छतो मंदधियो विपयस्य सुगमतायै तयैव भाषयोत्तरमपि समाधीयत इति भावः ॥ ५८ ॥
एवं समर्धिताया मायायाः प्रयोजनं सदृष्टान्तमाह, सदिति।
सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः। |
भित्तिगताः कुड्ये लिप्ता रक्तपीतादयो नानाविधमाकृतिविशेषम्। विक्रिया विविधतया क्रियन्त इयि विक्रियाः । स्थष्टमन्यत् ॥ ५९ ॥
आद्यविकारस्याकाशस्य विचारः ।
मायाकल्पितेषु विकारेषु प्रथममाह, आद्य इति ।
आद्यो विकार आकाशः सोऽवकाशस्वरूपवान्। |
मायया सद्वस्तुनि कल्पितानां विकाराणां मध्ये आद्यः प्रथमो विकार आकाशः। " आत्मन आकाशः संभूत” (तै. २.१) इति श्रुतेः । नामरूपसहि