चेत् शून्यत्वं मायाशक्तेरयथार्थत्वादत्यन्तासत्वमित्युच्यते चेत् तस्मान्मायाकार्यं शून्यमितीरितम् भवति । न कस्यापि माध्यमिकातिरिक्तस्यास्य जगतः शून्यत्वमिष्टम् ॥ ४८ ॥
एवं स्थिते सिद्धान्ती स्वमतं व्युत्पादयति, नेति ।
न शून्यं नापि सद्यादृक्तादृत्त्वमिहेष्यताम् ॥ ४९ ॥ |
यादृक् न शून्यं नासत् नापि सत् तादृक् शक्तेस्तत्वमिष्यताम् । सत्त्वासत्त्वाभ्यामनिर्वचनीयमितिभावः । इंद्रजालिकसृष्टेर्मायाकार्यत्वेन व्यवहारदर्शनात् सतः शक्तेर्मायात्वमुक्तमिति तात्पर्यम् ॥ ४९ ॥
अस्मिन्नर्थे ‘‘तम आसीत्तससा गूढ़मग्रे ’ (बृ.सम्. ८.७.) इति श्रुतिं प्रमाणयति, नेति ।
नासदासीन्नो सदासीत्तदानीं किं त्वभूत्तमः । |
सा माया असत् शून्या नासीत् सत् नो आसीत् । किं तु तदानीं सृष्टेः प्राक् तमोऽभूत् । न स्वभावरूपं बस्त्वासोदिति कथं तस्य सत्वोक्तिरित्यत आह । सदिति । तमसो मायाया: सद्योगात् सद्वस्तुसंबंधात् सत्वं सत्ताधर्म उच्यते । मायायाः स्वतः सत्ताभावे कारणनाह । नेति । तन्निषेधनात् तस्य सत्ताधर्मस्य निषेधनात् स्वतो न विद्यते ॥ ५० ॥
मायाया मिथ्यात्वविवक्षया सदभिन्नत्वमिव सद्भिन्नत्वमपि निराकरोति,अत इति ।
अत एव द्वितीयत्वं शून्यवन्न हि गण्यते । |
अत एव मायया: मिथ्यात्वरूपत्वादेव शून्यवत् द्वितीयत्वं न हि गण्यतें नाङ्गीक्रियते । तत्र दृष्टान्तमाह । नेति । लोके चैत्रतच्छक्त्योः चैत्रस्य तस्य शक्त्तेश्च जीवितं स्थितिः पृथक् न लिख्यते ॥ ५१॥