श्रुतिसिद्धं स्वगतभेदाभावं युक्त्या प्रतिपादयितुं भेदस्य प्रतियोगिप्रसि ध्दयधीनत्वात्प्रतियोगिनस्स्वगतस्याप्रसिद्धौ तद्वेदोऽप्यप्रसिद्ध एवेत्याशयेन प्रतियोग्यप्रसिद्धिं दर्शयति सत इति ।
सतो नावयवाश्शंक्यास्तदंशस्यानिरूपणात् । |
तदंशस्यब्रह्मणोऽवयवस्यानिरूपणात् केनापि प्रमाणेनाप्रतीतेः सतोऽवयवा न शंक्याः। नामरूपे तदंशौ स्यातामित्यत आह नामेति नामरूपे तस्यांशौ न भवतः कुतः ? तयोरद्यापि वर्तमानकालेऽपि अनुद्भवात् मिथ्यात्वात् । अत्र श्रुतावग्रे इत्यनेन विवक्षितस्सृष्टेः प्राक्कालएव वर्तमानत्वेन विवक्षित इति बोध्यम् ॥ २२ ॥
नामरूपयोस्सृष्टेः प्रागभावमेव विशदयति नांमेति ।
नामरूपोद्भवस्यैव सृष्टित्वात्सृष्टितः पुरा । |
नामरूपोद्भवस्यैव नामरूपयोरूद्भवस्य विवर्तस्यैव सृष्टित्वात्सतो नाम रूपादिकल्पनैव सृष्टिरित्यभिधीयत इति भावः। सृष्टितः पुरा तयोर्नामरूपयोरुद्भवो न तस्माद्यथा वियत् निरंशं अवयवशून्यं तथा सदप्यवयवविरहितमित्यर्थः । यतस्सतो नामरूपकल्पनैव सृष्टिरित्युच्यतेऽतस्स्वगतभेदराहित्यबोघकैकशब्दोऽर्थवान् ॥ २३ ॥
स्वगतभेदाभावेऽपि सतस्सजातीयभेदोऽस्त्वित्याह सदिति।
सदन्तरं सजातीयं न वैलक्षण्यवर्जनात् । |
ननु सदन्तरमन्यत्सजातीयं वृक्षान्तरमिव स्यादितिचेन्न वैलक्षण्यवर्जनात् सतो विलक्षणभावस्याभावात् । एवं च सजातीयभेदराहित्यबोधकं एकपदमर्थवदिति भावः । ननु घटसत्ता पटसत्तेत्यादिविभिन्नप्रतीतिबलात् तत्सत्तयोर्भेदे सिद्धे सजातीयं