पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२९७
कल्याणपीयूषव्याख्यासमेता

नद्वितीयावियोगविपिनावासादिभिरसाधारणैर्नलिप्येरन् । यदि प्रतीकार्याः ईश्वरपर- मानुग्रहपात्राणां स्वोचितधर्मानुष्ठानधुरीणानां नलरामादीनां तत्प्रतीकारः सुलभ एव स्यात् । अतो विवेकिनामपि निषिद्धक्रियाप्रवृत्तिरनिवार्यप्रारब्धलब्धेति भावः॥१५६॥

 ननु प्रारब्धानामनिवार्यत्वे सर्वशक्तेरीश्वरस्येशता परिहीयत एवेत्या शंक्याह, नेति ।

न चेश्वरत्वमीशस्य हीयते तावता यतः ।
अवश्यंभाविताप्येषामीश्वरेणैव निर्मिता ॥ १५७ ॥

 यतः एषां दुःखादीनामवश्यं भाविभाविता पूर्वकर्मगुणानुसारतयाऽनिवार्यताऽपीश्वरेणैव निर्मिता । तावता प्रारब्धस्यानिवार्यत्वमात्रेणेशस्य सर्वसमर्धस्येश्वरत्वं प्रभुता न हीयते निजमर्यादापरिपालनमेव राज्ञां स्वभावो न तु तत्प्रतीकारः ॥ १५७ ॥

 अनिच्छाप्रारब्धं विवृणोति, प्रश्नेति ।

प्रश्नोत्तराभ्यामेवैतद्गम्यतेऽर्जुनकृष्णयोः ।
अनिच्छापूर्वकं चास्ति प्रारब्धमिति तच्छ्रुणु ॥ १५८ ॥

 स्पष्टोऽर्थः ॥ १५८ ॥

 अर्जुनप्रश्नमाह, अथेति । (गी. ३. ३६)

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ १५९ ॥

 हे वार्ष्णेय ! वृष्णेर्यादववंशीयनृपतेरपत्यं पुमान् तत्कुलप्रसूतः। बलान्नि योजित इव राजाज्ञया नियोजितो भूत्य इव । स्पष्टमन्यत् ॥ १५९॥

 श्रीकृष्णस्योत्तरमाह, काम इति ।

काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ १६० ॥

38