तेषां “नाद्यापि कर्म नश्छिन्नमि"त्याकारकस्तापः न सांसारिक:, तल्लक्षणानक्रान्तत्वात्। किंतु विरक्तैव । एवं च तस्य संसारतापाभावाज्जीवन्मुक्तित्वं घटते । संसारतापशून्यत्वमेव जीवन्मुक्तित्वमिति भावः ॥ १४५ ॥
क्लेशविशेषदर्शनाद्विवेकमूलकत्वमविवेकमूलकत्वं चेत्येवं विशेषतः कथं । ज्ञायत इत्यत आह, विवेकेनेति ।
विवेकेन परिक्लिश्यन्नल्पभोगेन तृप्यति । |
विवेकेन परिक्लिश्यन् विवेकमूलकपरिक्लेशवान् जनोऽल्पभोगेन तृप्यति । अन्यथाऽविवेकेन क्लेशवाननन्तभोगेऽपि कर्हिचित् कदाचिदपि न तृप्यत्येव । भोगेन तृप्तितदभावाभ्यां क्लेशस्य विवेकमूलकत्वमविवेकमूलकत्वमिति विशेषो निश्चेतुं शक्य इति भावः ।। १४६ ॥
उत्तरार्धे दृष्टान्तमुखेन प्रपंचयति, नेति ।
न जातु कामः कामानामुपभोगेन शाम्यति । |
कृष्णवर्मा वह्निः । स्पष्टमन्यत् ॥ १४७॥
विवेकमूलस्य भोगस्य तृप्तिहेतुत्वमाह,परिज्ञायेति ।
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । |
अयं प्रारब्धप्रभवोऽनिवार्यो भोग उपभोगेन प्रारब्धः प्रक्षीणो भवतीत्येवं परिज्ञायोपभुक्तो भोगस्तुष्टये प्रारब्धनाशननिमितसंतुष्टये भवति । तत्रोदाहरणमाह, विज्ञायेति । “अयं चोर" इति विज्ञाय, सेवितश्चोरो मैत्रीम् मित्रतामेति न तु चोरताम् । परिगतसहवासश्चोरोऽपि मित्रमेव भवतीत्यर्थः ॥ १४८ ॥
ननु कामनापरतन्त्रत्वान्मनसः कथमल्पभोगेन तृप्तिरित्यत आह, मनस इति ।