पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
[तृप्तिदीप
पञ्चदशी

स्वरूपेणाप्यंशानां ग्रहणं न संभवतीति वैषम्यम्, इति शंकां परिहरति, निरंश स्येति । वस्तुतो निरंशस्याप्यारोपितम् सांशत्वमस्ति । तथारोपितांशमादायैवांश ग्रहणं सूपपादितमिति तात्पर्यंम् । तत्रारोपितांशकल्पना किमर्थेत्याशंकां परिहरति, व्यावर्त्यांशविभेदत इति । तत्र परोक्षपरोक्षज्ञानाभ्यां व्यावर्त्याशविभेदतः । व्यावर्त्यौ यावंशौ तद्विभेदतः। तद्भेदात् सांशत्वमारोपितमंगीकार्यमित्यर्थः ॥ ५५॥

 ब्रह्मणस्तावंशौ व्यावर्त्यप्रदर्शनव्याजेनाह, असत्वेति ।

असत्त्वांशो निवर्तेत परोक्षज्ञानतस्तदा ।
अभानांशनिवृत्तिः स्यादपरोक्षधिया कृता ॥ ५६ ॥

 असत्त्वांशो न भाति नास्तीत्यत्र नास्तीत्यनेन निर्दिष्टोऽसत्त्वांशः परोक्ष ज्ञानतो निवर्तेत । तथा अभानांशनिवृत्तिर्नभातीति निर्दिष्टांशस्य निवृत्तिरपरोक्ष धिया कृता स्यात् । एवं चाहंब्रह्मास्मीति ज्ञानेनासत्वांशाभानांशयोरुभयोरपि निवृत्तिदर्शनात्तत्तन्निवर्तकतावच्छेदकपरोक्षत्वापरोक्षत्वज्ञानयोरुभयोरपि तत्र दर्शनात् तदेव ज्ञानं परोक्षमपरोक्षमित्युच्यते ॥ ५६॥

 उक्तहेतुं दृष्टान्तमुखेन विशदयन् परोक्षज्ञानस्यासत्वांशनिवर्तकत्वं प्रद् र्शयन् तस्य भ्रमत्वासाधकत्वं विशदयति, दशम इति ।

दशमोऽस्तीत्यविभ्रान्तं परोक्षज्ञानमीक्ष्यते ।।
ब्रह्मस्तीत्यपि तद्वत्स्यादज्ञानावरणं समम् ॥ ५७ ॥

 दशमः पथिकोऽस्तीत्याप्तवाक्यजन्यं परोक्षज्ञानमभ्रान्तमीक्ष्यते लोके दृश्यते । ब्रह्मास्तीत्यपि श्रुतिवाक्यजन्यं परोक्षज्ञानं तद्वद्भ्रान्तम् । तस्मादपरोक्षत्वेन ग्रहणयोग्यस्य परोक्षज्ञानं न भ्रान्तिः । उभयत्रापि तन्निवर्त्यमज्ञानावरणमज्ञानकृत मसत्त्वावरणं समम् ॥ ५७ ॥

विचारसहकृतज्ञानं न भ्रमः।

 ननु वाक्येन जायमानज्ञानस्य शाब्दत्वेन परोक्षत्वमेव सिद्धम् । शाब्द- त्वस्य परोक्षत्वनियतत्वात् । अतः शब्दजन्यं ज्ञानं कथमपरोक्षमित्युच्यते ?