इत्थमद्वैततत्त्वं नित्यापरीक्षम् ज्ञात्वाऽपि, केचित्कुतोऽसन्तुष्टा इत्यत्र कारणमीर्यतामिति प्रश्ने उत्तरयति, चार्वाकादेरिति । प्रबुद्धस्याप्यूहापोहकुशलस्य । स्पष्टमन्यत् । कुशलबुद्धीनामपि चार्वाकाणां देहत्यात्मत्वेनांगीकारे यथा सम्यग्विचारशून्यत्वमुत स्ववादमौर्ख्यं वा कारणं, द्वैतिनामपि तथैवेति भावः॥२५७॥
धीदोषाच्चार्वाकादेर्विचारे सम्यक्त्वाभावाद्देहात्मबुद्धिरिति यदि समाधीयते, तदस्माकमपि समाधानं तुल्यमित्याह, सम्यगिति ।
सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा । |
सम्यग्विचारः संप्रदायसिद्धवेदान्तार्थविचारः । असन्तुष्टाः शास्त्रार्थः प्रति विश्वासरहिताः । शास्त्रार्थ शास्त्रसिद्धमद्वैतं । स्पष्टमन्यत् । शास्त्रसिद्धस्य सत्यचिद्रूपस्य "सच्चिद्रूपेण" सत्यप्यनुभवे विशेषाकारेणानन्दस्वप्रकाशकत्वादिरूपेण न पश्यन्ति ॥२५८॥
तत्त्वज्ञानफलनिरूपणम्
एवं तत्वं विचार्य तत्फलं विचारयितुं फलप्रतिपादिकां श्रुतिमाह, यदेति ।
यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि स्थिताः । |
यथाऽस्व मुमुक्षोर्हृदि स्थिता "अहमिदं ममेदमित्यध्यासनिमित्तारागप्रयुक्ता
ये कामास्तेसर्वे प्रमुच्यन्ते" । तदा "मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत" (कठ.२.
६. १५) इत्युत्तरार्थे श्रुत्यैव कामविमोचनफलमुक्तम् । इदं फलं घटते वा न वेति
विचारं प्रस्तौति, इतीति । इत्युक्तरीत्या श्रौतं श्रुत्युपदिष्टं फलं दृष्टं । तत्र न घटत
इतुिं शंकते, 'नेति' विचारस्य फलं सर्वकामप्रमोकः । न कदाऽपि नानुभूयते, तथा
च स फलमिति कथं वा वक्तुं शक्यत इतिचेत्समाधते, दृष्टमिति । तत्फलं दृष्ट्वैव
अनुभवसिद्धमेवं । एवं च तव हेतुरसिद्ध इति भावः॥ २५९॥
तदनुभवकाल क्यशेषेण दर्शयति, यदेति।