तया प्रतियोगिभूतचितश्चिदन्तग्राह्यत्वे घटादिवत्तस्य जडत्वापत्तिः । न द्वितीयः ।
स्वाभावस्य स्वेन ग्रहीतुमशक्यत्वात् । अतश्चित्प्रागभावो नानुभूत इत्युक्तिस्सम्यगे
वेति बोध्यम् । न चैवं रीत्या द्वैतस्यापि प्रागभावस्याननुभवात् तस्यापि नित्यत्व
प्रसंग इत्याशंकां परहरति, द्वैतस्येति । द्वैतस्य प्रागभावस्तु चैतन्येऽनुभूयते ।
जाप्रति वर्तमानस्य द्वैतस्य प्रागभावस्सुषुप्तौ साक्षिणानुभूयते ॥२५४ ॥
प्रागभावयुतत्वे सत्यचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणं द्वैते सम- न्वेति, प्रागभावेति ।
प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् । |
प्रागभावयुतं दैतं जगत् घटादिवत्सत्यत्वेन भासमानमिव रच्यते नियति- कृतनियमेन विन्यस्यते । तथापि तस्य रचनाऽचिन्त्या बुद्धेरगोचरा । तेन बुद्धेरगम्यत्वेनेन्द्रजालवन्मिथ्या अनिर्वचनीया ॥२५५ ॥
ननु चितेर्द्वैतंसाक्षितया ज्ञानरूपत्वेन स्वप्रकाशत्वं सत्यत्वमपरोक्षत्वं च सिद्धमेव । तथा च ‘‘ न तदनुभूयते प्रत्यक्षतये ”ति वदतामज्ञातृत्वमेवेत्याह, चिदिति ।
चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते । |
चित्प्रत्यक्षा स्वप्रकाशत्वेन नित्या अपरोक्षा । ततोऽन्यस्य द्वैतस्य मिथ्यात्वं च चितानुभूयते । एवं च सत्यद्वैतमपरोक्षं न, अप्रत्यक्षम् । एतद्वचनं कथं न व्याहतं भवेत् ? अद्वैतस्य चिदनतिरेकित्वात् ॥ २५६॥
एवमद्वैतस्य प्रत्यक्षत्वेन केषांचिदंविश्वासः कुत इति शंकां प्रतिबंद्योत्तरयति, इत्थमिति ।
इत्थं ज्ञात्वाप्यसंतुष्टाः केचित्कुत इतीर्यताम् । |