पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१६
[चित्रदीप
पञ्चदशी

 ननु तेषां मोक्षाभावेऽपि न्यूनाधिकफलप्राप्तिरस्त्येवेत्याशंक्य तावता को लाभ इत्याह, उत्तमेति ।

उत्तमाधमभावश्चेत्तेषां स्यादस्तु तेन किम् ।
स्वप्नस्थराज्यभिक्षाभ्यां न बुद्धः स्पृश्यते खलु ॥ २१८ ॥

 स्पष्टः पूर्वार्धः। तेषामभ्युदयरूपफलस्य सत्वेऽपि विनाशितया तस्यान्ततो दुःखत्वेन तत्तारतम्यचिन्ता आत्यन्तिकफलाभिलाषिणां निष्फलैवेति भावः। स्पष्टमन्यत् । न स्पृश्यते न विक्रियामाप्नोति। स्वप्नेऽनुभूतराज्यभिक्षे इव द्वैतोपासना फलमनित्यमित्यर्थः॥२१८॥

 तस्मान्मुमुक्षुभिः कर्तव्यमाह, तस्मादिति ।

तस्मान्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः ।
कार्या किंतु ब्रह्मतत्वं विचार्यं बुद्यतां च तत् ॥२१९॥

 स्पष्टोऽर्थः । जीवेशवादयोर्भान्तपरिगृहीतत्वादिति भावः ।। २१९॥

 ननु ब्रह्मतत्त्वबोधस्य विचारोत्तरकालिकतया विचारस्य जीवेश्वरादि- वादपूर्वकतया च तत्र मतिर्न कार्येत्ययुक्तमित्याशंक्याह, पूर्वपक्षेति ।

पूर्वपक्षतया तौ चेत्तत्त्वनिश्चयहेतुताम् ।
प्राप्नुतोऽस्तु निमज्जस्व तयोर्नैतावताऽवशः ॥ २२० ॥

 स्पष्ट पदयोजना ।यस्य कस्यापि वस्तुनस्तत्वनिश्चये तत्प्रतियोगिज्ञानस्यावश्यकतास्तु नाम तत्प्रसंगः। तत्त्वनिश्चयोपयोगिविचाराङगमात्रतयैव तद्ज्ञानं संपादनीयम् तस्मिन् मग्नो भूत्वा ब्रह्मविचारविमुखो माभूदिति भावः।।२२०॥

 ननु तन्मतसिद्धयोर्जीवेश्वरयोश्शोधनेऽसंगचिदूपत्वमेवोपलभ्यते । साङ्खैर्जीवस्यासंगचिद्रूपत्वमुच्यते । योगिभिश्चेश्वरस्याप्येवं चिन्तितम् । एवं च तन्मतयोर्भवत्सिद्धान्तान्तर्भावात्कुतः पूर्वपक्षत्वमुच्यत इत्याशंक्यांशतः पूर्वपक्षत्वं निरूपयितुमाह, असंगचिदिति ।