पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
[चित्रदीप
पञ्चदशी

सौषुप्तमानंदमयं प्रक्रम्यैवं श्रुतिर्जगौ ।
एष सर्वेश्वर इति सोयम् वेदोक्त ईश्वरः ॥ १५८ ॥

 “सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभु“गिति (मांडूक्य, ५) सौषुप्तं सुषुप्तिसंबंधिनमानन्दमयमीश्वरं वर्णितुमुपक्रम्य मांडूक्यश्रुतिः "एष सर्वेश्वर” इत्येवं "एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य प्रभवाप्ययौ हि भूताना”(मांडूक्य.६.)मित्युक्तरीत्या जगौ । स सर्वज्ञत्वसर्वेश्वरस्वान्तर्यामीत्वजगद्योनित्वप्रभवाप्ययकारणत्वगुणविशिष्टोऽयं मायाधिष्ठान’ सर्वेश्वरोवेदोक्तो वेदैरुपवर्णित ईश्वरः। न तु पातंजलाद्यभिमतः। अत्रेश्वरस्य सर्वेश्वरत्वादीन्यभिहितानि ।तेषां व्याख्यानस्वरूपेण प्रवृत्तोऽयमुत्तरग्रन्थः। तत्र “अयं यदिति” (६-१६०) पद्ये सर्वेश्वरत्वं “सर्वज्ञत्वादिके” इत्यस्मिन् "अशेषप्राणिबुद्धिना"मित्यस्मिन् "वासनाना"मित्यस्मिम्श्च (६ १५९-१६१-१६२) सर्वज्ञत्वं “विज्ञानमयमुख्येष्वि"त्या“द्येतस्य वे"त्यन्ते ग्रन्थेऽ(६-१६३-१८२)न्तर्यामित्वं “जगद्योनि'रित्यादि “मायी सृजतीत्याद्यन्ते ग्रन्थे (६-१८२-१९७) जगद्योनित्वं च यथाक्रमं विव्रियते ॥ १५८ ॥

ईश्वरस्य सर्वेश्वरत्वविचारः ।

 नन्वानन्दमयस्य सर्वज्ञत्वादिकं न युक्तिसहमित्याशंक्याह, सर्वज्ञत्वेति ।

सर्वज्ञत्वादिके तस्य नैव विप्रतिपद्यताम् ।
श्रौतार्थस्यावितर्क्यत्वान्मायायां सर्वसंभवात् ॥ १५९ ॥

 तस्यानंदमयकोशस्य सर्वज्ञत्वादिके आदिशब्देन सर्वशक्तिमत्वादिर्गृह्यते तद्विषये नैव विप्रतिपद्यताम् । तत्र हेतुमाह,श्रौतेति । श्रौतार्थस्यावितर्क्यत्वात् । तच्चान्यत्र प्रपञ्चितम् । श्रौतार्थस्यावितर्क्यत्वांगीकारेऽप्याह, मायेति । मायायां सर्वसंभवात् दुर्घटैकविधायिन्या मायाया अवितर्क्यत्वस्य पूर्वमुपपादितत्वेन तस्यां सर्वज्ञत्वादीनां संभवादुपपन्नत्वादित्यर्थः ॥ १५९॥

 आनन्दमयस्य सर्वेश्वरत्वे उपपत्तिमाह, अयमिति ।