स्पष्टोऽर्थः । "प्रजापतिः प्रजा असृजत” प्रजाकामो वै प्रजापतिस्स तपोऽ तप्यत” (प्र.१.४.) इति श्रुतिम् ॥ ११६॥
भागवतमतमाह, विष्णोरिति ।
विष्णोर्नाभेः समुद्भूतो वेधाः कमलजस्ततः ।। |
स्पष्टोऽर्थः ॥ ११७॥
शैवानां मतमाह, शिवस्येति ।
शिवस्य पादावन्वेष्टुम् शार्ङ्न्यशक्तस्ततश्शिवः । |
स्पष्टोऽर्थः । अत्र देवोभागवते (५.३३.३०.) कथानुसंधेया ॥ ११८॥
गाणपत्यमतमाह, पुरेति ।
पुरत्रयं साधयितुं विघ्नेशं सोऽप्यपूजयत् । |
स्पष्टोऽर्थः । अत्र गणपतिपुराणगाथानुसंधेया ॥ ११९ ॥
एवमन्यदेवतोपासाकनां तत्तभिमतमतानां यथाकथंचिच्छ्रौतत्वसंपादन प्रकारमाह, एवमिति ।
एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा । |
एवमन्ये मैरवोपासकाद्याः स्वस्वपक्षाभिमानेनान्यथान्यथा बहुप्रकारैः स्वस्वोपास्यदेवतानुसारेण मन्त्रार्थवादकल्पादीन् अर्थवादाः तत्तद्देवतास्तोत्रपराः कल्पा: स्थलपुराणानि । तदादीनाश्रित्य स्वाभिमतदेवताया ईश्वरत्वं प्रतिपेदिरे कल्पयन्ति। स्वमतस्य श्रौतीचिकीर्षया मन्त्रार्थवादादीन् प्रमाणयन्तीति भावः॥१२०॥