अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । । |
स्पष्टोऽर्थः ॥ १०४ ॥
तत्त्र सेश्वरसांख्यमतप्रवर्तकेन पतंजलिनोक्तं "क्लेशकर्मविपाकैस्तदाशयैर- परामृष्टः पुरुषविशेष ईश्वर” इति सूत्रमर्थतः पठति, क्लेशेति ।
क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः। |
क्लेशकर्मविपाकैः क्लेशाः अविद्याऽस्मितारागद्वेषाभिनिवेश इति पंचधा प्रसिद्धाः । तत्रानात्मनि देहादावात्मबुद्धिरविद्या, सत्त्वपुरुषयोरह्नमस्मीत्येकताभि- मानोऽस्मिता, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः, दुःखाभिज्ञस्य तदनुस्मृतिपुरस्सरं तत्साधनेषु निवृत्तिर्द्वेषः। पूर्वजन्मानुभूतमरण दुःखानुभववासनाबलात् सर्वस्य प्राणभृन्मात्रस्य आक्रिपेरा च विदुषस्संजायमानः शरीरविषयादेर्वियोगो मम मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपो- ऽभिनिवेशः, इत्येते पंच च, कर्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि, विपाकाः कर्मफलानि, जात्यायुर्भोगा: । आफलविपाकाच्चितभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः, तैरप्यसंयुतोऽसंस्पृष्टः पुंविशेष ईशः । सोऽपि जीववदसंगचित् , जीवेश्वरावुभावप्यसंगचिद्रूपावित्याशयः ॥ १०५ ॥
ईश्वरस्याप्यसंगचिद्रूपत्वाविशेषात्कथं तस्यैव नियंतृत्वं घटत इत्याशंक्याह, तथापीति ।
तथापि पुंविशेषत्वाद्घटतेऽस्य नियन्तृता । |
तथापीश्वरस्यासंगचिद्रूपत्वेऽपि क्लेशाद्यपरामृष्टत्वेन पुंविशेषत्वात्पुरुषाणां नानात्वाच्चास्य नियन्तृता सर्वलोकनियामकता घटते । अन्यथा इहास्मिन् लोके बंधमोक्षावव्यवस्थौ व्यवस्थारहितौ आपतेताम् भवेताम् । सर्वेषां बद्धत्वम् मुक्तत्वं वा