पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
१२१
कल्याणपीयूषव्याख्यासमेता

निवासश्चेति परस्परं विरुद्ध्येत । अशनाच्छादनेच्छामात्रस्यापि कामप्रयुक्तत्वात् सभ्यक् ज्ञानप्रतिबंधकमेव स भवति ॥ ५४ ॥

 ननु तत्वविदो यथेष्टाचरणं यद्यनुमन्यते तथैवैहिकफलकामनाप्यनुमता स्यादिति नैषाऽपादनयोग्या । भवतोऽप्यभिमतत्वादित्याशंक्य तत्र सुरेश्वराचा- र्यवचनमाचष्टे, बुद्धेति ।

बुद्धाद्वैतस्वतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ५५ ॥

 बुद्धाद्वैतस्वतत्त्वस्य बुद्धमद्वैतस्य स्वतत्त्वं निजस्वरूपं येन तस्य यथेष्टाचरणं स्वेच्छावृत्तिर्यद्यङ्गीक्रियते तदा शुनां कुक्कुराणां तत्त्वदृशां ज्ञानिनां चाशुचिभक्षणे को भेदः न कोऽपि । “आचारहीनं न पुनन्ति वेदा" इति भावः ॥ ५५ ॥

 विशेषाभावे इष्टापत्तिरिति वदन्तं प्रति सोपहासमुत्तरमाह, बोधादिति ।

बोधात्पुरा मनोदोषमात्रात्क्लिश्यस्यथाधुना।
अशेषलोकनिंदा चेत्यहो ते बोधवैभवम् ॥ ५६ ॥

 बोधात्पुरा तवाभिमतज्ञानोत्पत्तेः पूर्वं मनोदोषमात्रात् मनसः कामक्रोधादयो ये दोषास्त मात्रेणैव हेतुना क्लिश्यसि । अधुना तादृशज्ञानोत्पत्यनन्तर मशेषलोकनिंदा यथेष्टाचरणप्रयुक्ता सर्वलोकैः क्रियमाणा निंदा तत्प्रयुक्तः क्लेश इति यावत् । एवं क्लेशद्वैगुण्यं तवापततीत्यहो ते बोधवैभवं तव विलक्षणज्ञानशोभा। अहो इत्यनेनाश्चर्यकरमिति द्योतनादुपहासः प्रतीयते । यदि तत्वतस्तत्त्वज्ञानी स्यात् कामादिभ्यो यथा न क्लिश्नाति तथा लोकनिंदाया अपि न क्लिश्नाति तत्त्वज्ञानाभिमानी तु लोकनिंदाया इव कामादिभ्यः क्लिश्नाति । । अयमेव विशेषः तत्वज्ञानैहिककामनावतोर्यथेष्टाचरणे ॥ ५६ ॥

16