जीवन्मुक्तिरियं माभूज्जन्माभावे त्वहं कृती। |
इयं सर्वकामोन्मूलननिमित्ता जीवन्मुक्तिरस्माकं माभूत् । अहं तु जन्माभावे कृती कृतकृत्यः । विदेहमुक्त्यैवालमिति वदन्तमैहिकभोगभंगभिया विदेहकैवल्यावाप्तिव्याजेन जीवन्मुक्तिमपलपन्तं पूर्वपक्षिणं प्रतिबंद्या समाधत्ते । यद्वैहिकत्यागभयाज्जीवन्मुक्तिं त्यजसि तर्हि ते जन्माऽप्यस्तु पुनर्जन्मापि त्वयाङ्गीकार्यं स्यात् । तदभावे ह्यामुष्मिकभोगत्यागभयस्यापरिहार्यतया स्वर्गादिमात्राद्भवान् कृतीति मत्वा विदेहमुक्तिमपि त्यजत्वित्याह, स्वर्गेति । भवान् स्वर्गमात्रात् स्वर्गसुखानुभवमात्रेण कृती भवतु । कामोपस्थापितकर्माचरणफलभूतं स्वर्गमवाप्य यावत्कालमुषित्वा फलभोगानन्तरं पुनः कर्मशेषफलभोगाय जन्मस्वीकरोतीति तावन्मात्रत्वेन कृतकृत्यो भवति । रागस्यानिवृत्तत्वान्न तस्य निःश्रेयसावाप्तिरिति भावः । "ब्रह्मलोकाभिवाञ्छायां सम्यक्सत्यां निरुध्यताम् । विचारयेद्य आत्मानं न तु साक्षात्करोत्यय ” (९.५१.) मित्यन्यत्रोक्तम् ॥ ५२ ॥
तव प्रतिबंदी न युक्तेति पूर्वपक्षी शंकते, क्षयेति ।
क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा । |
अभ्युदयानन्दहेतुः स्वर्गोऽपि क्षयातिशयदोषेण नाशस्य तारतम्यदोषेण हेयः त्याज्यः ; अतः स्वर्गमात्रात् कृतार्थता न । सिद्धान्तो तां शंकामपि प्रतिबन्द्यैवोत्तरयति, यदेति स्वर्गस्य हेयतया न तेन कृतित्वमिति यदाभ्युपेयते तदा दोषतमात्मा सकलपुरुषार्थविध्वंसकत्वेनात्यन्तदोषस्वरूपः कामादिः किं न हीयते ? अत्यन्तहेयमेवेतिभावः। कामकर्मफलभूतस्य स्वर्गसुखस्य क्षयित्वेन हेयत्वेनाङ्गीकारे तत्कारणभूतस्य कामादेरपि क्षयित्वात्स्वयं सकलपुरुषार्थविघातुक त्वेनातिदुष्टस्वरूपत्वादयं कामादिः किं न हीयते ? उभयोरपि क्षयित्वाविशेषेण स्वर्गवत्कामादिरपि हेयः । सकलषुरुषार्थविघातुकत्वरूपदोषान्तरसद्भावत्सुतरां त्याज्य इति तात्पर्यम् ॥ ५३ ॥