पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

दलद्रयं ब्रह्म एतदात्मभावेनावस्यित्तमहमस्मीति पश्यन्नेतस्मादेव दर्शना दृषि: वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपत्रवान् किलेति । हशब्टेो व्यवधानेन संबन्धनीय: । स एतस्मिन्दर्शने स्थित: सर्वात्मभाव प्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श भारद्वाजादय: षङ्कट्टषयः पर विद्याप्रदं पिप्पलादं गुरुं"विदद्यानिष्क्रयार्थमनुरुपमन्यदपश्यन्त: पादये। प्रणम्य प्राचुः । त्वं ह्यस्माकं पिता ब्रह्मशरीरस्याजराऽमरस्य विदद्याया जनयितृत्वाट् इतरौ तु शरीरमेव जनयत: । जनयितृत्वमपि सिद्धस्येवा विद्यानिवृत्तिमुखेनेत्याह यस्त्वं न: अस्मानविदद्यामहेोदथे: परमपुनराव तिलतणं पारं तारयसि विद्यालवेनेति प्रश्नापनिषत् । प्रतं ह्येव मे इत्यादि च्छन्दागश्रुति: सनत्कमारनारदसंवादरुपा । तचापि तारयत्वित्यन्तमुपन्न मस्यं वाक्यं शेषमाख्यायिकेापसंहारस्यं वाक्यान्तरम् । मम भगवट्ट शेभ्येण भगवत्सदृशेभ्य: इदं श्रुत्तम् । यत्तरति शेाकं मनस्तापमकृता थैबुद्धिमात्मविदिति । सेो ऽहमनात्मवित्वाच्छोचामि अतस्त्वं मां शाक्र सागरस्य परमन्तं भगवांस्तारयतु आत्मज्ञानेाडुपेनेति । वल्कलादिवचिव तरञ्जके रागादिकषाये मृत्ति: चालितेो विनाशिता यस्य ज्ञानवैराग्या भ्यासक्षारजलेन तस्मै नारदाय तमसेो ऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान् ।

संवर्गविद्यायां यूयते । वायुर्वाव संवर्गे । यदा वा अग्निरुद्धायति उपशाम्यति वायुमेवाप्येति प्रलीयते| । यदा सूर्ये ऽस्तमेति वायुमेवाप्येति । यद। चन्द्रो ऽस्तमेति वायुमेवाप्येति । यदा ऽय उच्छुष्यन्ति वायुमेवापियन्ति वायुहॅवैतान्सर्वान्संवृड़े इत्यधिदैवम्वा । अथाध्यात्मम् । प्राणे वाव संवर्ग यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चतु: प्राणं श्रोचं प्राणं मन इति । तद् ब्रह्मविदि तत्कार्यादन्यदेव । अष्टा अपि अविदितात्कार णात् अथि उपरि अन्यदित्यर्थः । येन प्रमाचा इदं सवै वस्तु विजानाति लेाकः तं केन कारणेन विजानीयात् करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्य


६८ गुरुमिति नास्ति १ पुः । + श्रञ्जरामरणस्येति ३ पुः पा• । * छान्दोग्येतिपा. २ पुः पा•। $ अविटपाख्यस्येति ३ पुः पाः । | प्रलीयते इति २ नास्ति । प्र४िटैवतमिति २ पु• पाः ।