पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ विशिष्टाद्वैतसिद्धिः [ ४ : ५ : ६ :७:८ ४. "वाक्यभाष्ये इसे अपि नष्टे, अदृश्यतां गते” इति वन्नेव "तयोरुभयोरपि 'उभयविधमपि ब्रह्म स्पष्टं प्रकाशितम्" इति प्रतिज्ञानीते शास्त्री । केवलं माहसमेतत् । ५. विशिष्टत ग्रन्थेषु यावन्ति बाक्थन्धनःष्यमन्यवःक्या- न्युदाहृतानि तानि सर्वाणि आलस्यं विना बहु परिश्रम्य उपत्तभ्य गण- यित्वा दर्शितानीति अभिनन्दनीयमेतत् । किन्तु परनिन्दातत्परत चैत्र तत् कृतमिति शोकस्थानं तद्भवति | वाक्यग्रन्थे अष्टौ, भाष्यग्रन्थे नव, आहत्य सप्तदश वाक्यानि अद्वैतग्रन्थेषु उदाहृतानि | वाक्यमन्थे द्वावि- शतिः, भाष्यग्रन्थे एकादश, आहत्य त्रयस्त्रिंशद्वाक्यानि द्विशिष्टाद्वैत- ग्रन्थेषु उदाहृतानीत्याह । तत्र 'सिद्धन्तु निवर्तकत्वात्' इत्येतत् छान्दो- ग्यवाक्यकार ब्रह्मनन्दिवाक्यमिति कैश्चदुक्तमपि व्याकरणवाक्यकार- कात्यायनवाक्यमिति साभिसन्धि वदन मधुसूदनसरस्वती प्राचामुक्तिः कात्यायनग्रन्थादर्शनजनितभ्रान्तिमूलति स्फुटयावेदयति | श्रीभाष्येऽनु- दाहरणात् नेदं ब्रह्मनन्दिवाक्यमिति शक्यमध्यवसातुम् । ६-७ श्रीशंकरेण वाक्यकारनामनिर्देशः कचिदपि न कृतः । भाष्यकार निर्देशोऽपि अनेकेषु स्थलेषु सम्प्रदायविदः' इत्यादिप्रकारेण सामान्यतोऽपि न कृतः । अथापि वाक्यभाष्यग्रन्थवाक्यानि बुद्धौ कृत्वा तत्सच्छायानि वाक्यानि शंकराचार्यो लिखतीति श्रीभाष्ये वाक्यकार- भाष्यकारनामनिर्देशपूर्वकं साक्षात् तद्वाक्योदाहरणादेव ज्ञायते । ८. कप्यासं पुण्डरीकमित्यत्र षडर्था वाक्यकारेणोक्ता इनि, लख 'आदित्यक्षिप्तं वा श्रीमत्त्वात्' इति अन्यतमार्थप्रतिपादकं वाक्यग्रन्थ- वाक्यमिति च सुदर्शनसूरवचनादेव ज्ञायते । स्वयं वाक्यग्रन्थमदृष्ट- वतोऽपि पूर्वाचार्यकृत ग्रन्थविशेषोत्यादेव तस्य तद् ज्ञातमासीदिति वक्तव्यम् । षट्सु अर्थेषु एकस्मिन्नपि स्वस्थ दरं श्रीशङ्करो न प्रदर्श- यति स्म । एकस्मित् अर्थे प्रसक्तं हीनोपमादोषपरिहारमात्रमुवाच । -