पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० विशिष्टाद्वैतसिद्धिः विदित विषयान्तरः शठारेरुपनिषदामुपगानमात्रभोगः | इति । श्रीशठकोपस्तुतिश्लोकच- भक्तामृतं विश्वजनानुमोदनं सर्वार्थदं श्रीशठकोपवाङ्मयम् । सहस्रशाखोपनिषत्समागमं { ६० नमाम्यहं द्राविडवेदसागरम् || इति । एतेन 'तत्पूर्वतनो यामुनस्तु शठकोपभाऽपि सन् 'उपनिषत् ' इति उद्घोषणमतिप्रसङ्गादनुचितं मन्वानः' इति पामरजल्पितं पराम्तम् | तत्पिता महेनैव तथा घोषणस्य कृतत्वात् । एवंविधेषु विषयेषु औचि- त्यानौचित्यविवेचने महिषप्रायाणामनधिकारित्वात् । यदपि साक्षा- द्भाष्याग्रहणे वितथवादी स्यादाचार्य इति तद् ब्रह्मह्त्याशीलस्य मशक- वारणसन्त्रासकल्पम् । आचार्याणां प्रतारकत्वमुच्यते । अत्र तस्य वितथवादित्वापत्तेः का भीतिः | 'सप्तमे पर्वणि 'छान्दोग्योपनिषद्भाष्य- कारः' इति नृसिंहाश्रमोक्तौ 'अत्र छान्दोग्योपनिषद्भाष्यमिति पदेन 'छान्दोग्योपनिषद्वाक्यभाष्यमित्यर्थो ग्राह्यः' इत्युपदष्टवता त्या आत्मसिद्धौ 'तानि च विवृतानि' इत्यत्र तथाऽर्थग्रहणासम्भवादिव वितथवादित्वापत्तिः कथमुद्भाव्यते । इदं हि नृशंसत्वं नाम | अथ यत् द्रमिडभाष्यवाक्यं न किञ्चिदुदाहृतमिति, उदाहरणीयमिति को निर्बन्धः। अथवा सूत्रेषु, वृत्तिषु, वाक्ये, तद्भाष्ये च स्पष्टमुक्तानेवार्थान् उपेक्षमाणाः खण्डयन्तञ्च अवमन्यन्ते परे । तर्कबलवाश्रित्य विपरीत सिद्धान्तं साधयितुमुयुञ्जने । तान् प्रति किं पूर्वाचार्यग्रन्थोदाहरणेन तर्कबलेनैव तान् निरः करिष्यानि यामुनाचार्यो मेने। अनेनैव हेतुमा द्राविडवेदसूक्तीनामपि अनुदाहरणम् । न तु द्राविडभाषामयत्वेन । संस्कृतेन परिवर्त्य उदाहर्तुं शक्यत्वान् । तथा करोति च श्रीवेङ्कटनाथ- गुरुः यातयामं गतरसमित्यत्र तात्पर्य चन्द्रिकायाम्-