पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीयम् । दक्षितस्तु रागद्वेषपर व१.ः उपेक्षते । अदूषणीयं दूषयं । अमार्गे गत्वा दूषयति । पुनरपि भाज्यद्वयवाक्यानामापातप्रतीतिमाश्रित्य श्रीभाष्ये दोषाः न्तरम।ह । ‘शाङ्गयोनित्वादिति सौत्रहेत्तौ । पूर्वसूत्र एव प्रतिज्ञातत्वेन योजयितुं शक्ये परभाष्ये ब्रह्म शास्त्रप्रतिपाद्यमिति प्रतिज्ञामध्याहृत्य हेतोः सध्यावैरिष्टयपरिहारार्थं अब्भक्षादिवदवधारणगर्भतया शास्त्रेतरा प्रमाणकत्वदित्यर्थे पर्यवसानमुक्तम् । तदप्यतिक्लिष्टमिति स्पष्टमेव ।” इति । अहृदयमेव इदमुक्तमिति विदुषां सुप्रहम् । जगज्जन्मादिकारणं व्रति पूर्वसूत्रार्थः । तत्र किं प्रमाणमिति चेदाह सूत्रकारः ‘शास्त्रयोनि त्वात्’ इति श्रीकण्ठः इदं सूत्रमवतारयति । पूर्वाधिकरणे अयं “यतो वा इमानि भूतानि जायन्ते इत्यादिवाक्यं विषयः ।" इत्युपक्रम्य अत्रोक्तं जन्मादिकारणत्वं न सम्भवतीति पूर्वपक्ष प्रापय्य ‘अतो जगज्जन्मा दिलक्षणं त्रदंति सिद्धान्तं प्रतिपादयामास । एवं सति ‘जगत्कारणं ब्रह्म किम्प्रमाणकमित्यत आहइति प्रकृतसूत्रावतरणं नोपपद्यते । शास्त्रमुपादायैव जगत्कारणस्य ब्रह्मणः साधितत्वात् । पुनः माणापे क्षया असम्भवात् । इमामनुपपत्तिं स्वयमुद्भाव्य परिहरति तस्मिन्न घिकणे दीक्षितः- तत्र प्रमाणप्रदर्शनार्थमुत्तराधिकरणमित्यर्थः । यद्यपि तस्मिन् ‘यतो वा’ इत्यादि शास्त्रं प्रमाणमिति पूर्वाधिकरण एवोदाहृतं, तथाप्यानुमानिके जगज्जन्मादिकर्तरि तत्सिद्धार्थानुवादकं तद्वाक्यं न प्रमाणमिति तस्य पूर्वाधिकरणे तत्र प्रमाणतयोदाहरणमयुक्क मिति प्राप्ते शास्त्रप्रामाण्यादेव जगज्जन्मादिकारणं ब्रह्म न स्वनु- मान प्रामाण्यादिति स्थापयतुमाक्षेपंसङ्गस्या इदमधिकरणमारभ्यत -इति भावः ।