पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ विशिष्टाद्वत सद्धिः [ ७३ । अनृजवः अयोग्याः, वञ्चनपराः, शङ्करमाधवप्रभृतयो नेति कः प्रत्ययः । वस्तुतस्तु बंधायनवृत्तिं निर्दिशत्येव शङ्कराचार्यः । 'नन्विह् कर्मा- वबोधानन्तर्य' विशेषः' इत्यनेन निरसनायोप हि मतं वृत्तात् कर्मा- धिगमादनन्तरं ब्रह्मविविदिपा' इति वदतो बोधायनस्यैव । 'अपरेतु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्ते, अस्मदीयाश्च केचित् इति दहराधिकरणे केचिदित्युत्तो बोधायन एव | तस्य नारमार्थिक- जीवस्वरूपस्येष्टत्वात् । वेदान्तित्वेन तं 'अस्मदीयाः' इति विशिष्ट । श्रीभाध्ये यत्र यत्र वृत्तिकार उदाहृनः तत्र तत्र बोधायनमताननुसारित्वं तन्निराकरणपरत्वं च शङ्करस्य ज्ञापितम् । अतो बोधायनस्य स्वकीय ग्रन्थेष्वनिर्दिष्टत्वात् तद्वृत्तेः कल्पितत्वं सुवच मिति वृथा मनोरथं कुर्वन शास्त्री खलजनक्षुण्णे पथि सुदूरं गत इति शोचनीयमेतत् । 2 ७३. ब्रह्मसूत्रवृत्तिकारस्य बोधायनम्य शशशृङ्गायमःणतामुप- पादयितुकामः प्रथमं नस्य श्रौतगृह्यधर्मसूत्रकारबोधायन महर्षेर्व्यतिरिक्तता साधयितुं प्रवृत्तः अयं महर्षिः परमाद्वैती शिवभक्तश्चेति प्रतिजानीते | तस्याद्वैतित्वं प्रमाणं किमपि न प्रदर्शयति । शिवभक्त. स्याद्वैतित्वं स्वतः सिद्धमिति मन्यत इव | तत्तु न | शैवसिद्धान्ते जगत्सत्यत्वस्य जीवाना- मोश्वरात् अन्योन्यं च भेदम्य चाभ्युपगमात | शिवाद्वैतादेरत्यन्तमर्वा- चीनत्वात् | शाङ्क‍स्याद्वैतस्य गौडाज्ञत्वेन ततः शक् सर्वथा अप्रसिद्ध- त्वाच्च । ऋषःणां काले यद्यप्यात्माद्वैतं ब्रह्माद्वैतभित्येवमात्मकं विञ्जिद- द्वैतं स्थितं तथाऽपि तस्यैकस्यात्मनो ब्रह्मणो वा निर्गुणत्वं केवलचैतर्भय- रूपत्वं जगन्मिथ्यात्वं च न येन केनापि ऋणानृषिणा वा मसा ऽपि चिन्तितमासीत् । सर्वमिदं सौगतप्रतिभाविलसितं गौडपादेन परिगृहीतम | तस्मात् श्रमप्राचीनो यः कोऽपि श्रद्य विद्यमानाति- तुल्योऽद्वैती बभूवेत्येतदसम्भवदुक्तिकम् । शिवभक्तत्वं च किं शिव एव भक्तत्वं अथवा शिवेऽपि भक्तत्वमिति