पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ ] अनुबन्धः ३८१ प्रत्यययाथार्थ्याय तद्विषयतथात्वाय च अपेक्षयान्तगभावात्। अद्वैतं ध्वस्तं भवेदिति भवतां भी तिरप्रीतिराक्रोशी वा प्रमाणस्वभावं प्रमेय स्वभावं वा विपर्यसितुं नालम् । यदुच्यते अञ्जसेति पदेनोक्तं यथाभूनत्वं न हीनि वाक्येन शास्त्रस्य यथा- भूतवादित्वेनोपपद्यते इति तत् तथा । यथाभूतत्वं च पारमार्थिकत्वमेव | न मायामात्ररूप- त्वम् | मायया प्रदर्शितस्य अभूतत्वात् । यथाप्रतीनि सत्त्वं हि यथाभूतत्वम् । यत्तु “यथाभूतत्वमसत्त्वाभावमात्रं, न पारमार्थिकत्वम्” इति, तत् बटत्वं घटभिन्नभेदमात्रं, न तु जातिविशेष इतिवदुपहास्यम् । असत्त्वाभावस्य सत्त्वरूपत्वान् | सत्त्वस्यैव पारमार्थिकत्वशब्देनोक्तेः । नन्व- द्वैतिनामस्माकं नैवमिति चेत् कामं तथा । पारिभाषिकसत्त्वासत्वादिकल्प- नातू । इमिडभाष्यवाक्यानां तु लोकप्रसिद्धार्थस्यैव वक्तव्यत्वात् | यदपि पारमार्थिऋत्वार्थऋत्वाभिप्रायेण च परकीयमद्वैतव ददूषणं, "पर- मेश्वरस्यापि सर्वशत्तत्वात् उपासकानुग्रहाय रूपोपादानसम्भ- वत् । किं मायामयं रूपम् | नेति ब्रूमः | पारमार्थिक.मेवै- तत् | यथाभूतार्थज्ञापकं हि शास्त्रम् |" इति भास्करग्रन्थार्थ- चौर्यरूपम् ।” इति चौर्यत्र्यपदेशेन निन्दनं, तेन दूषणस्य कः परिहारः । इमिडभाष्य- ग्रन्थं मर्नास निधायैव हि एवं भास्करी भाषते । अनेन 'स्याद्रूपं कृतक' मिति पूर्व क्षवाक्यं सिद्धान्ततया स्वीत् तत्र कृतकमित्यस्य माया- ममिति शङ्करं यद् विवरणं तद् द्रमिडभाष्यविरुद्धं अत एवोपेच्य मिति हि भास्कराभिप्रायः स्फुटीभवति । यो हि कामनोपहनः कश्चित् शङ्खपीतिमवादी तं प्रथमं 'तात, शङ्खो न पीतः अपितु पाण्डर एव' इति प्रतिबोध्यापकान्ते देवदत्ते, यदि यज्ञादत्तोपाधयेत् तत्र यज्ञदत्ते देवदत्तोक्तार्थचोरत्वाभिधानमात्रेण शमा न जातु